________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१७
प. २८]
अङ्गमन्त्रसाधनम् हार्दकं मूर्तिमन्त्रं तु सह नाना 'दले दले ॥ १३ ॥ लिखे करेणैव पुष्येणानशनो व्रती । समस्तदोषशान्त्यर्थं समस्तमुखद्धपे ॥ १४ ॥ समस्तापद्विमोक्षाय समस्तवनिताप्तये । एतदृदयमन्त्रस्य साधनं कथितं मया ॥ १५॥
[शिरोमन्त्रसाधनप्रकारः ] अधुना साधनं वक्ष्ये शिरोमन्त्रस्य नारद । न्यस्य हस्ते तथा देहे पूजयित्वा हृदन्तरे ॥ १६ ॥ लाक्षारसाक्तवर्णेन साब्जमालिख्य मण्डलम् । तन्मध्ये तु शिरोमनं माग्वद्धयात्वा यजत्ततः॥१७॥ तानं स्वर्ण तु जुहुयात् सघृतान्वै तिलानथ । भूत्वा रक्ताम्बरधरस्तन्मन्त्राकृतिविग्रहः ॥ १८॥ आक्रम्य गिरिमध्यं तु जपेल्लक्षाणि पञ्च वै । तदन्ते जुहुयान्मन्त्री लक्षत्रयमनन्यधीः ॥ १९ ।। रक्तपाटलपुष्पाणां सुगन्धानां तु नारद । कुमागरुलिप्तानां घृताक्तानां विशेषतः ॥ २० ।। दद्यात्पूर्णाहुतिं पश्चात्कुङ्कमेन घृतेन च । साकारं तु ध्रुवोर्मध्ये पश्पेन्मन्त्रं जगत्मभुम् ॥ २१ ॥ ततः कर्माणि वै कुर्याल्लब्धसंवित् सुसाधकः । वशीकुर्याजगत्सर्वमात्मना च धनेन च ॥ २२ ॥
[सिद्धिजं सामर्थ्यम् ] मजप्य शतवारं तु बाह्रीकं हेमभूषितम् । अङ्गुष्ठानामिकाग्रेण मर्दयित्वा निशाम्बुना ॥ २३ ॥ ललाटे तिलकं कुर्याद्विजानामिकया परम् । तदघोङ्गुष्ठसंस्थेन रजसा बन्धयेद्धृदि ॥ २४ ॥ दिनत्रयं यथासङ्ख्यं जपन्सन्ध्यात्रयं चरेत् । चतुर्थेऽहनि संमासे मण्डलीको नराधिपः ॥ २५ ॥
1दलोदरे A 2 शतं साष्टं A
For Private and Personal Use Only