________________
Shri Mahavir Jain Aradhana Kendra
प. २३ ]
www.kobatirth.org
श्राद्धविधानम्
[ तन्मध्ये पितॄणां विष्णुरूपाणां ध्यानम् ] संस्थाप्य 'भगवद तन्मध्ये मनसा स्मरेत् । तान्पितॄन् विष्णुरूपांच भासा भास्वरविग्रहान् ॥ ३१ ॥ पितृमंत्रेण तदनु पितृमातृमयान्पितॄन् । त्रिस्सप्तकुलसंस्थापनोक्ता नत्रैव भावयेत् ॥ ३२ ॥ अर्थयित्वा ततोऽनुज्ञां गृहीत्वा शिरसा ततः । पात्रासनस्थितेभ्यस्तु पित्रर्थ यागमाचरेत् ॥ ३३ ॥ [ मन्त्रेशसन्निधावभ्यर्थनम् ] भगवन्पिढ्यागार्थ यजामि त्वां विशेषतः । तेषामनुग्रहार्थं तु यागमाहर मेऽच्युत ॥ ३४ ॥ एवं विज्ञाप्य म
1 भगवत्य Y भगवन्य CL.
३३
Acharya Shri Kailassagarsuri Gyanmandir
[चरुसाधनम् ]
चरुं क्षीरेण साधयेत् । संस्कृते पुरा यत्सिद्धं तच्चावलोकयेत् ।। ३५ । प्रोक्षयेदत्रमत्रेण भक्तं सव्यञ्जनादिकम् । संस्कृतेनाग्निना ताप्य कृत्वा मधुघृताप्लुतम् ॥ ३६ ॥ तिलदर्भान्वितं पञ्चात्माग्वदाप्याय्य निर्दहेत् । सर्व यत्साधितं किञ्चित् भक्ष्यपानादिभोजनम् ॥ ३७ ॥ चेतसा कल्पयेत्सर्वे पितॄणां तर्पयेत्तु तत् ।
[ साधितेन भक्ष्यभोज्यादिना देवस्य यजनम् ] ततस्तेन यजेद्देवमर्घ्यपुष्पादिकेन तु ॥ ३८ ॥ यथा निवेशिताः पूर्व मण्डलेष्वथ नारद । तेषां वृत्यर्थमुद्धृत्य संपूर्ण तु फलादिकैः ॥ ३९ ॥ दधिक्षीरानपात्रं तु क्रमादस्योद्धृतं च यत् अर्घ्यपुष्पैस्तथा धूपलेपनाञ्जनदीपिकैः ॥ ४० ॥ तद्वीर्यमूष्मणा सार्धं तस्मिन्परिणतं स्मरेत् । तेन तं भावयेत्तृप्तमतीव मुनिसत्तम ॥ ४१ ॥ सर्वेषामन्नवीर्ये हि एवं परिणतं नयेत् ।
For Private and Personal Use Only
२१७