________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
२०५
वराहकूर्मवक्त्रं वा सुश्लक्ष्णमय केवलम् । उच्छ्रायं नवधा युंज्याचतुरनं तु मण्डलम् ॥ ८१ ॥ भागद्वयेन भूस्पर्श कुर्याज्जान्वंघिसंज्ञितम् । घण्टा(टा ?)कारं तदूर्वे तु वृत्तं भागद्वयोन्नतम् ॥ ८२ ॥ वृत्तोपरि ततः कुर्यात्कण्ठभागद्वयोच्छ्रितम् । तं च भागेन भागेन परितः संप्रवेशयेत् ॥ ८३॥ अर्धमागेन निष्क्रान्तामेकांशेन तदर्ध्वतः। कुर्यादै मेखलां विप्र भागेनार्धन कुम्भवत् ॥ ८४ ॥ सार्धेनोपरि भागेन चतुरश्रां तु मेखलाम् । जलाधारः स विज्ञेयो द्विगुणञ्चोयविस्तृतम्(तः ?)॥ ८५ ॥ तल्यंशेन तुलापीठं निम्नखातेन खातयेत् । तर्चे कमलं कुर्यात्नातिनिम्नं च नोनतम् ॥ ८६ ॥ देवतास्तत्र कर्तव्या दलस्थाः पूर्वचोदिताः । तासां वा पूजनार्थ तु केवलं विततच्छ्दम् ॥ ८७ ॥ पीठगेच्छायात्तु पादेन त· कमलोच्छितम् । संभवे सति वै भिन्ना(न? )मभिन्ना( ? ) सत्यसंभवे ॥ ८८ ॥
[बिम्बपीठयोः सजातीयविजातीयद्रव्यत्वविकल्पः ] सजातीयं हि यत्पीठं बिम्बस्य मुनिसत्तम । तदनन्तफलं विद्धि क्षेमारोग्यसुभिक्षदम् ॥ ८९ ॥ बिम्वेन सह यत्पीठं मिन्नं तच्छोभनं भवेत् । मोक्षदं कीर्तिदं चापि दद्यात्परिमितं फलम् ॥ ९०॥ राजनं( तं?) हेमबिम्बस्य पीठं भवति शोभनम् । ताम्रजं राजतस्योक्तमीरितं तस्य शैलजम् ॥ ९१ ॥ शैलजं शैलजस्योक्तं दारुजस्यापि दारुजम् । मृण्मयस्य च दारूक्तं शैलजं दारुजस्य च ॥ ९२॥
[अथ प्रासादोपपीठः] चातुर्भागेन वै गर्भाद्भित्तिमानं विधीयते । गर्भमानात्सभित्तीकात्मासादस्य तु नारद ॥ ९३ ॥ पादहीनं पुरा पीठं वृत्तं वा चतुरश्रकम् । अर्घन्यूनं तु वै कुर्यात्संक्षिसं वा सुसम्मितम् ॥ ९४ ॥
For Private and Personal Use Only