________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[१.११ ततस्तेषां विधानेन कुर्यान्मन्त्रमयीं तनुम् ।
[गुरुणा शिष्ये कर्तव्यो भावनाविशेषः ] यथाऽऽत्मनि पुरा देवे यथाऽनौ कलशे यथा ॥ ११५ ॥ शिष्यस्य च तथा ध्यायेत्सकलानिष्कलात्परम् । परं च त्र्यक्षरेणैव केवलेन तु नारद ॥ ११६ ॥ संस्कारस्सकलः प्रोक्तः शङ्खचक्रगदाधरः। निष्कलः शक्तिरूपस्तु मध्यमो मन्त्रनायकः ॥ ११७ ॥ पर शक्त्यवसानस्तु प्रणमात्मा (वात्मा' ?) व्यवस्थितः। सकलाधिष्ठिता व्यक्ता प्रकृतिः स्पष्टरूपिणी ॥ ११८ ॥ निष्कलाधिष्ठितं ज्ञेयमव्यक्तं पुरुषीश्चितिम्( ?) मन्त्ररूपेण देवेन सदसद्वयक्तिरूपिणा ॥ ११९ ॥
परेणाधिष्ठितं सर्व व्यक्ताव्यक्तं चिदात्मकम् । [स्वस्य शिष्यस्य चोक्तप्रकारेणैकीभावं भावयतो गुरोरेव संसारविमोचकत्वोक्तिः ]
एवं देवं स्वमात्मानं शिष्यं च पुरुषात्मकम् ॥ १२०॥ एकीभावेन यो वेत्ति न्यासकाले परस्य तु । दीक्षाधिवासने विप स संसाराद्विमोचकः ॥ १२१ ॥
[मत्रमूर्तेर्भगवतः सन्निधौ विज्ञापनम् ] विज्ञाप्यवाथ भगवानस्थलस्थो मन्त्रविग्रहः । सबन्धान्वैषयैः पाशैः विदेहं (विवशान् ?) पशुपक्षिवत्॥१२२॥ त्वदनुग्रहसामर्थ्यान्मोक्षयामि जगद्गुरो। विज्ञाप्यो भगवनेवं विनिवेद्य पशू( ? )विभोः ॥ १२३ पुत्राः शिष्यास्तथा भृत्यास्तथै(वै !)व परमेश्वर ।
[अहतेन वाससा शिष्यस्य नेत्रबन्धनम् ] वाससा ह्यहतेनाथ शुद्धेन मुसितेन च ॥ १२४ ॥ नेत्रमन्त्राभिजप्तेन नेत्रे शिष्यस्य बन्धयेत् ।
[पिनद्वनेत्रस्य शिष्यस्य हस्तेन पुष्पाञ्जलिप्रक्षेपणम् ] अमन्त्रं क्षेपयेचातो विष्णोः पुष्पाञ्जलिं स्थले ॥ २२५ ॥
[पुष्पाञ्जलिपतनानुसारेण शिष्यस्य नामकरणम् ] यत्र सा पतति ब्रह्मन्बुद्धिसङ्कल्पितेऽम्बुजे । I परवात्मा Y. एतत्पाठानुगुणस्तु परमात्मेति पाठः प्रतिभाति,
For Private and Personal Use Only