________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
जयाल्यसंहिता
[प. १५
असकृत्कुं लिखेधस्तु स तु दद्यात्पराभवम् ।
__ [तिथिभेदेन फलमेदाः] शुभे ग्रहे मुनक्षत्रे शुक्लपक्षे तिथिष्वपि ॥ २१५ ॥ द्वादश्यां धर्मकामार्थानग्निस्थः कुरुते विभुः । सौभाग्यं तु त्रयोदश्यामेकादश्यां ध्रुवं जयः (यं ?) ॥ २१६ ॥ पञ्चम्यां द्रव्यसिद्धिं च नवम्यां कीर्तिदः प्रभुः । तिथयः शुक्लपक्षे तु मोक्ताः सौभाग्यकर्मणि ॥ २१७ ॥ यथाकामं तु मोक्षार्थी पक्षयोरुभयोरपि । | प्रभाधर्चिःसप्तके क्रमादकैकस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः] प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि नारद ॥ २१८ ॥ विद्यां प्रयच्छत्यचिरात् दीप्तिस्थो भूमदः प्रभुः । तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थितः ॥ २१९ ।। शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः। तपन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ २२० ॥ विपक्षोच्चाटनं कुर्यात्कराळासंस्थितो विभुः । लेलिहावस्थितो मन्त्रो यदि सन्तर्पितो मुने ॥ २२१ ॥ दद्यादभीप्सितं चैव देहान्ते परमं पदम् । । इदमुक्तं मया विष होमकर्म समासतः ॥ २२२ ॥
[होमान्ते कर्तव्यस्य तदुत्तराङ्गस्य विधानम् ] होमान्ते सानलं मन्त्रं भूयः पुष्पादिभिर्यजेत् । मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ॥ २२३ ॥ सन्दर्शयेत्ततो वहेर्मुद्रां मन्त्रसमन्विताम् ।
[अग्निमुद्रा] पद्माकारौ करौ कृत्वा अडष्ठौ च कनिष्ठिके ॥ २२४ ॥ संमील्य चाग्रदेशात्तु कर्णिकेव यथा द्विज । तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ॥ २२५॥
असंलग्नं तु निक्षिप्तं मुद्राऽनेः संप्रकीर्तिता । [मण्डले विन्यस्तस्य मन्त्ररूपस्य भगवतो मूर्धनि पुष्पाञ्जलिसमर्पणप्रकारः ]
मण्डलाग्रं ततो यायाद्धोमं विष्णोः समर्प्य च ॥ २२६ ॥ आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
For Private and Personal Use Only