________________
Shri Mahavir Jain Aradhana Kendra
१४८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
तमेव शान्तिके कुर्याद्वषड्डाऽऽप्ययने सदा । स्वधा पितृक्रियायां च फट्कारः क्षयकर्मणि ॥ १८७ ॥ विद्वेषे हुं वशे हीं च नमो मोक्षप्रसिद्धये । [ पूर्णाहुतिप्रकारः ] कर्महोमावसाने च घृतेनापूर्य च स्रुव (च) म् ॥ १८८ ॥ अभावात्तु प्रभूतस्य ( ? ) होमद्रव्येन पूरयेत् । तत्रोपरि घृतं दद्यात्ततोर्घ्य कुसुमादिभिः ॥ १८९ ॥ मूलदेशात्समारभ्य स्रुक्संपूज्या स्रुवान्विता । घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ १९० ॥ द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्ण समुद्धरेत् ।
[१.११
For Private and Personal Use Only
स्रुग्दण्डं देहनाभी तु मूले संरोध्य संस्मरत् ॥ १९९ ॥ निष्कळं मननाथं तु पूर्णशीतांशुसन्निभम् ।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ।। १९२ ।। विधाय चेश्वराधारे तस्माद्धारामृतं महत् । नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ॥ १९३ ॥ सामृतामाज्यधारां च वसुधारामिव क्षिपेत् । मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथवा ॥ १९४ ॥ हृत्पद्मान्तर्गतां सम्यक्मविष्टामनुभावयेत् । तया वै बृंहितं मन्त्रं भावयेद्ब्रह्मधारया || १९५ ॥ तृहृष्टं च पुष्टं च तुष्टं वै साधकोपरि । मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ १९६ ॥ ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता । सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ १९७ ॥ [ अग्नेर्वर्णादिभेदैः कर्मसिद्धेर्ज्ञातव्यता ] बहुशुष्केन्धनेन च होतव्यं कर्मसिद्धये । अग्नेर्वर्णाश्च गंधाच शब्दाश्राकृतयस्तथा ॥ १९८ ॥ विकाराच शिखाचैव संवेद्याः कर्मसिद्धये । पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः ।। १९९ ॥ बालार्कवर्णो हुतभुक् जयार्थे शस्यते द्विज । इन्द्रको पकवर्णाभः शोणाभो वाऽथ पावकः ॥ २०० ॥