________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १५
ततः पाणिद्वयेनैव अनामाङ्गष्ठपीडितम् । मध्यननं कुशाकाण्डं गृहीत्वाऽऽज्योपरि त्रिधा ॥ ११५ ।। नयेत्तच्चानयेद्विम तमग्नौ निक्षिपेत्कुशम् । संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ॥ ११६ ॥ उपाधिश्रयणं नाम यत्तद्रावणमुच्यते । परिवर्तनमन्यस्मिन्भाण्डे दोषापनुत्तये ॥ ११७ ॥ प्रसादीकरणं ह्येतत्ततो दार्भ पवित्रकम् । विनिक्षिपञ्च तन्मध्ये पवित्रीकरणं च तत् ॥ ११८ ।। कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम् । तेनावर्त सकृद्विप तद्वै नीराजनं स्मृतम् ॥ ११९ ॥ नीरजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् । अवकुण्ठनमेतद्धि तर्जन्या यत्मदक्षिणम् ॥ १२० ॥ तेजसा हृदयस्थेन दृग्गतेनावलोकनम् । निरीक्षणमिदं विम ततस्तत्रोपरि स्मरेत् ॥ १२१ ॥ चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् । मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतपथम् ।। १२२ ॥ तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् । तत्सुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १२३ ॥ सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् । अमृतीकरणं नाम इदं ते संपकाशितम् ॥ १२४ ॥ अवलोक्यामृतीकृत्य दातव्ये चैव चक्षुषी।। [ उक्नुवाभ्यां कुण्डस्य दक्षिणवामभागयोः क्रमादाज्यहोमः ] सुव(च?) माज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ॥ १२५ ॥ सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे। अपरस्मिन् वे ध्यात्वा सोमाख्येनाक्षरेण तु ॥ १२६ ॥ पूर्ण शशाङ्कबीजं च प्रदद्यात्तु तदुत्तरे।।
[ कुण्डस्य मध्यभागे अग्नीषोमात्मकस्य यजनप्रकारः ] ताभ्यामभ्यन्तरे पश्चादग्नीषोमात्मकं यजेत् ॥ १२७ ॥ यद्वीजं हि सतत्त्वस्य शरीरस्याखिलस्य च । अविभागेन वै यत्र संस्थिता देहधातवः ॥ १२८ ॥
For Private and Personal Use Only