________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १५]
१३५
अथाग्निकार्यविधानम् योन्येषु (?) निस्सृतं कुर्यात्तमेवाधोगतं तु वै । आक्रम्य मेखलाभूमि यावत्वातं तु संस्पृशेत् ॥ २८॥ इत्येतत्कथितं नाभेलक्षणं च यथास्थितम् । साधनं चतुरश्रस्य विद्धि कुण्डस्य यागवत् ।। २९ ॥ चतुरश्रस्य वै मध्ये सूत्रं कृत्वा भ्रमं (?) ततः । चतुरश्रं समं कुर्यात्सर्वदिक्कोण वर्जितम् ॥ ३०॥
[ कुण्डानां विकल्पः] नित्यनैमित्तके होमे वृत्तं वा चतुरश्रकम् । त्रिमेखलं तु कर्तव्यमोष्ठनाभिसमन्वितम् ॥ ३१ ॥ द्विमेखलं वा विप्रेन्द्र सुश्लक्ष्णं च मनोरमम् ।। एकमेखलकं वाऽपि कुण्डं क्षेपणि(?)णकर्मणि ॥ ३२ ॥
[कुण्डे हवनस्य प्राशस्त्यम् ] कुर्याचलं स्थिरं वाऽपि न हि कुण्डं विना शुभम् । हवनं विप्र मन्त्राणां तस्मात्कुण्डं च साधयेत् ॥ ३३ ॥
[देशकालवैगुण्येन कुण्डस्यासम्भवे हवनप्रकारः ] देशकालवशाचैव कुण्डं न घटते यदि । तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ॥ ३४ ॥ शोधिते ह्युपलिप्से च स्थले चलमृदान्विते । होमस्तु विहितस्सम्यक् मन्त्रस्यामब्रितस्य च ॥ ३५ ॥ पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते । मध्ये पद्मं प्रकुर्वीत श्रीपद्मं पद्ममध्यगम् ॥ ३६ ॥ एवं कृते शुभे कुण्डे अमिकार्य समाचरेत् । यागगेहात्तु वाऽन्यस्मिन्यदि गेहे महामुने ॥ ३७॥ पूर्ववद्वारयागं तु कृत्वा संमविशेत्ततः । तत्रैव यदि वा कुर्याहत्वाऽन्यच्चासनं शुभम् ॥ ३८ ॥ तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
[ कुण्डसंस्कारप्रकारः ] कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ ३९ ।। निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु । ताडयेदत्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ ४० ॥
For Private and Personal Use Only