________________
Shri Mahavir Jain Aradhana Kendra
१२८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
पूजयेच्च स्वमन्त्रेण ततस्तत्सन्घये क्रमात् । [ वैष्णव्याः परशक्तेरक्षसूत्रे भावनाक्रमविधानम् ] या परा वैष्णवी शक्तिरभिन्ना परमात्मनः ॥ ३५ ॥ प्रचलत्पूर्णचन्द्राभा सूर्यवत्किरणादृता । युगक्षयोग्रहुतभुक्तेजसा तीवृबृंहिता ॥ ३६ ॥ प्राग्वत्सृष्टिक्रमेणैव स्मरेद्धृत्पद्ममध्यगाम् । पूरकेण तु विमेन्द्र कुम्भकेन निरोषिताम् ॥ ३७ ॥ हृत्पद्मादुत्थितां भूयो ब्रह्मरन्धावधिं स्मरेत् । ब्रह्मरन्धात्तो वि प्रोल्लसन्तीं शनैरशनैः ॥ ३८ ॥ पूर्ववत्सन्धिमार्गेण चिन्तयेद्वादशान्तगाम् । (?) रेचकाख्येन योगेन तया सूत्रं तु भावयेत् ।। ३९ ।। [ अक्षसूत्रप्रभोद्भासितत्वेन यागालयस्मरणम् ] भासितं चाय सूत्रेण सर्वे यागाळयं स्मरेत् । पूर्णेन्दुनेव गगनं,
[ मन्त्रात्मनो भगवच्छतेः सूत्रस्य मन्त्राक्षराणां चैकीभूतत्वभावनविधिः ] निष्कळो मन्त्रराट् ततः ॥ ४० ॥
मन्त्रवृन्दसमायुक्तो मनस्तत्रेति चिन्तयेत् ।
मन्त्रात्मा भगवच्छक्तिस्सूत्रमन्त्राक्षराणि वै ॥ ४१ ॥ सर्वमेकीकृतं ध्यायेद्यथा क्षीरेण सोदकम् । [ सकलनि कलमन्त्रस्य सृष्टिक्रमेणाक्षसूत्रे सान्निध्यचिन्तनम् ] तत्र पुष्पाञ्जलौ पृष्ठे गृहीत्वा चिन्तयेदिमम् ॥ ४२ ॥ सुसंस्कृताक्षसूत्रस्य पतन्तं पृष्ठतो द्विज । सृष्टिक्रमात्समायातं मन्त्रं सकळनिष्कळम् ॥ ४३ ॥ स्फुलिङ्गगणसङ्काशमाधेयतनुतां गतम् ।
[ भगवत्प्रार्थनापूर्वकं तदभ्यनुज्ञयाऽक्षसूत्रस्य ग्रहणम् ] इदं विज्ञाप्य देवेशमक्षसूत्रमयाच्युत ॥ ४४ ॥ प्रयच्छ मन्त्रजापार्थ स्मरेशचं च तेन तत् । गृहीत्वा शिरसा पश्चात्प्रसीद इति चोच्चरेत् ।। ४५ ।। [ अभ्यर्चनपूर्वकमक्षसूत्रे मन्त्रस्य प्रतिष्ठापनक्रमः ] मा संज्ञापयेत्पथादर्घ्यपात्राश्च वारिणा
For Private and Personal Use Only
[प. १३