________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
॥ अयोगव्यवच्छेदिका ॥
अगम्यमध्यात्मविदामवाच्यं
___ वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूप
महं स्तुतेर्गोचरमानयामि ॥१॥ स्तुतावशक्तिस्तव योगिनां न किं
गुणानुरागस्तु ममापि निश्चलः। इदं विनिश्चित्य तव स्तवं वदन्न
बालिशोऽप्येष जनोऽपराध्यति । २॥ क सिद्धसेनस्तुतयो महा
अशिक्षितालापकला क चैषा । तथापि यथाधिपतेः पथिस्थः
स्खलद्गतिस्तस्य शिशुन शोच्यः॥३॥ जिनेन्द्र ! यानेव विवाधसे स्म
दुरंतदोषान् विविधैरुपायैः। त एव चित्रं त्वदसूययेव
कृताः कृतार्थाः परतीर्थनाथैः ॥४॥
For Private and Personal Use Only