________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
पुरं समाङ्गयोश्छत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥५५॥ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥५६॥ धर्म दानादिके तुल्यभागेऽधं ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥५७॥ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः ।
भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः ॥५८॥ द्वन्द्वैकत्वाव्ययीभावौ, क्रियाऽव्ययविशेषणे । कृत्याः क्तानाः खल जिन्भावे, आ त्वात्त्वादिः समूहजः ॥५९। गायत्र्याधण्स्वार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥६०॥ राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपत्रे, कन्थोशीनरनामनि ॥६१॥ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका ॥१२॥
मौत्तिकं माक्षिकं सौप्तिकं क्लीतकं,
नाणकं नाटकं खेटकं तोटकम् । आहिकं रूपकं जापकं जालकं, वेणुकं गैरकं कारकं वास्तुकम् ॥६३॥
For Private and Personal Use Only