________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
स्पृशिमृशतिविशतिदृशिशिष्लशुषय
स्त्विषिपिषिविष्लकृषितुषिदुषिपुषयः॥६॥ श्लिष्यतिविषिरतोषसिवसती
रोहतिलुहिरिही अनिङ्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती
नातिदेहिरिति स्फुटमनिटः ।।७।। इति अनिट्कारिका ॥
॥अथ संप्रहश्लोकाः॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वदस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२॥ ऊवं मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥३॥ अविकारो द्रवं मूतं प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥४॥
For Private and Personal Use Only