________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org.
ॐ अहं नमः । ऐ नमः ।
श्रीमाञ्जनकीर्त्तिरत्नसूरिशाखाभृत्-श्रीमज्जिनवर्द्धनसूरिसन्नानीय - श्रीबृहत्खरतर बिरुदभृत् - श्री कोटिकाख्यगच्छस्थितिश्रीमज्जिनजय सागरसूरीश्वरप्रणीतम्
जङ्गमयुगप्रधान - भट्टारकपुरन्दर-सर्वशास्त्रविशारद - जैनाचार्य
श्रीमद् - जिनकृपा चन्द्रसूरीश्वरचरित्रम्
Ro
॥ अथ प्रथमः सर्गः ॥
(मालिनीवृत्तम्) - त्रिभुवननरनारीवृन्दपोपूज्यमानः, प्रथमजिनवरोऽयं निर्जिताऽमर्त्यवृक्षः । जगदवनकरिष्णुः शान्तिकृच्छान्तिनाथो, भवतु सकलसंघ श्रेयसेऽनारतं सः ॥ १ ॥ भवभयहर एकः पार्श्वनाथः शरण्यः, कलुष-वनदवोऽयं मारजिनेमिनाथः । चरमजिनपतिः श्रीवर्धमानः कृपालु भवजलधि-सुपोतः श्रेयसे नः सदाऽस्तु ।। २ ।
( शार्दूलविक्रीडितम् ) — श्रीमान् स्तम्भनसत्पुरे स्थितिकरः श्रीपार्श्वनाथः प्रभुः, सर्वाऽऽशा-परिपूरणेऽमरतरोरौपम्यमाप्तः क्षितौ । विद्याऽऽन्योऽभयदेवसूरिवचीमध्यस्थितां शाश्रीं मूर्ति बहिश्चकार सततं दद्यात्सको वः शिवम् ॥ ३ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsun Gyanmandir
*%%* 99র