________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरिचरित्रम्
।। ५५ ।।
www.kobatirth.org.
"
नोऽभूवुः (वन्), शारदेन्दुयशोधराः ।। २९ ।। महागिर्यादिका अष्टौ वज्रान्ता दशपूर्विणः । व्युच्छित्तिं च ततः पश्चादगमद्दशमो हि सः ॥ ३० ॥ श्रीमहागिरिनामानं, सुहस्त्याचार्यकं परम् । सुस्थिताऽभिधमाचार्य, तं श्रीसुप्रतिवद्धकम् ।। ३१ ।। इन्द्रदिनाऽभिधं दिन्न, सूरिं वन्दामहे भृशम्। आचार्यं सिंहगिर्यारूयं वज्रस्वामिनमेव च ॥ ३२ ॥ वज्रसेनाऽभिषं चन्द्रं, सामन्तभद्रकं ततः । देवं प्रद्योतनं स्तौमि मानदेवाऽभिधं नुमः ॥ ३३ ॥ आचार्य मानतुङ्गाऽऽख्यं वीरं सूरीश्वरं तथा । जयदेवाऽभिधं सूरिं, देवानन्दं महाधियम् ॥ ३४ ॥ विक्रमं नरसिंहाऽऽख्यं, समुद्रविजयं तथा। मानदेवं नमस्यामि, विबुधप्रभरिकम् ।। ३५ ।। जयानन्दमभिष्टौमि कीर्तिमन्तं रविप्रभम् । यशोभद्राऽभिधं सूरिं, श्रीमद्विमलचन्द्रकम् ||३६|| देवच न्द्राऽभिधं नौमि नेमिचन्द्रं नमामि तम् । सूरिमुद्योतनं स्तौमि वर्द्धमानं जिनेश्वरम् ॥ ३७ ॥ जिनचन्द्रप्रभुं भक्त्या - ऽभयदेवमभिष्टुवे । जिनवल्लभनामानं जिनदत्तं प्रभाविनम् ॥ ३८ ॥ जिनचन्द्राऽभिधं सूरिं, जिनपतिं यतीन्द्रकम् । लक्ष्मीजिनेश्वरौ वन्दे, श्रीसंघसुखकारिणौ ।। ३९ ।। जिनप्रबोधमाचार्य, जिनचन्द्रं यतीश्वरम् । जिनकुशलनामानं पद्ममूर्ति च नौम्यहम् ॥। ४० ।। जिनलब्धिमहं वन्दे, जिनचन्द्र-जिनोदयौ । जिनराजाऽभिधं सूरि-माचार्य जिनभद्रकम् ॥ ४१ ॥ जिनचन्द्राख्यमाचार्य, श्रीमजिनसमुद्रकम् । जिनहंसमभिष्टौमि जिनमाणिक्यसूरिकम् ॥ ४२ ॥ ( पश्चचामरम् ) - महागिरिं श्रियाऽन्वितं मुनीश्वरं शमाऽम्बुधिं, जगञ्जनाऽऽधिवारकं दयालुतासुमन्दिरम् । नमामि सूरिनायकं जिनागमाब्धिपारगं, समस्तलोकमानितं विशालकीर्तिमण्डितम् ॥ ४३ ॥ सुहस्तिसूरिराजकं ह्यशेष-सद्गुणाऽऽकरं, रविप्रभा - समप्रभं सुधा - समानदेशनम् । विवादि-वृक्ष - कुञ्जरं जगद्धितप्रवर्तकं, भृशं स्ववीमि सादरं भवाम्बुधिप्रतारकम् || ४४ || ( उपजातिः ) - श्रीसुस्थि
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
18
प्रथमः सर्गः ।
॥ ५५ ॥