________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३३
चतुर्मासिकपारणं बहिर्विधेयं यतनया २९ गुरुस्तूपद्रव्यमपि देवखज्ञानवत् ३० अकालसंज्ञायां यथातथा उपवासः प्रेश्यः ३१ अष्टमीचतुदश्योः पादशौचवर्ज उच्छोलनानिषेधः करणे उपवासः ३२ उत्सर्गेण दुग्धनिषेध: ३३ इति व्यवस्थापत्रम् ||४|| अनेनैव क्रमेण प्रतिसंघाटकं सिद्धान्तानुसारेण गच्छानुकूलेनैव सांप्रदायेन वर्त्तमानिकैः सुविहितगीतार्थैः संविमरीत्या निर्वाहयोग्यम् व्यवस्थापत्रं लेख्यम् ॥ अथोत्सुत्रस्यैकलेशः ज्ञाप्यते' तथाहि - ननु आगमे स्त्रीणां पूजानिषेधः कापि नश्रूयते' प्रत्युत प्रभावतीद्रौपद्यादीनां तद्विधेरेव श्रवणात्' आधुनिकवनितानां अपि जिनाचैनं युक्तमेव, अन्यथा तासां दुर्लभार्हद्धर्मलाभो वैफल्यमापद्येत' सम्यक्तशुद्धेः अन्यथानुपपत्तेरिति चेत्, शृणु तरुणीनां स्वहस्तेन जिनांगस्पर्शनंन युक्तिमत् यतस्तासामनियतकालतया स्वयमप्यलक्षणतया च स्त्रीधर्मस्य संभवेन सर्वासां तदयोग्यतोपपत्तेः किंच लोके लोकोत्तरे च स्त्रीधर्मस्य महादोषत्वेन श्रवणादपि स्त्रीणां तद्विधानं न संगतिमियर्ति, अन्यथा सिद्धान्ताध्ययनादौ साध्वीनां कथंचित् स्त्रीधर्माविर्भावे, श्रुताशातनाघातनाय छेदग्रन्थेषु तादृक् प्रयत्वं गणभृतो न व्याहरेरन्, देहधर्मतया भवदाशयेन तत्र दोषानवकाशात्, तथा पंचेंद्रियजन्तुदेहक्षतादिक्षतजस्यापि वसत्यादिषु विन्दुमात्रस्य पतितोधृतस्याप्याशातनानिमित्तेनाहोरात्रादिमर्यादया सिद्धान्ताध्ययनादिप्रतिषेधः सूत्रे प्रत्ययादि, किंपुनर्नारीरजसः, लौकिका अपि मलिनीं प्रत्याहुः प्रथमे अहनि चंडाली, द्वितीये ब्रघातिनी, तृतीये रजकी प्रोक्ता, चतुर्थे अहनी शुध्यतीति, एवंच यदा रुधिरसन्निधौ सिद्धान्तमप्यधीयाना विराधयन्ति, तदा
For Private And Personal Use Only