________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
॥ अथ सप्तमः सर्गः ॥ श्रीजिनकुशलसरिजीसद्गुरुभ्योनमः, श्रीगौडीपार्श्वनाथप्रसादात् शिवततिर्भवतु,-अर्हतोज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थसिद्धाः पंचाचारप्रवीणाः प्रगुणगणधराः पाठकाश्चागमानां, लोके लोकेशवंद्याः सकलयतिवराः साधुधर्माभिलीनाः, पंचाप्येते सदाप्ताः विदधतु कुशलं विघ्ननाशं विधाय ॥१॥
श्रीवीरं क्षीरसिन्धूदकविमलगुणं मन्मथारिप्रघातं, श्रीपार्श्व विघ्ननाशनविधौ विस्फुरत् कान्तिधारं, सानन्दं चन्द्रभूत्याहतवचनरसं दत्तवर्णवोधं, वन्देहं भूरिभक्त्या त्रिभुवनमहितं वामनः काययोगैः ॥ २ ॥ श्रीजिनवल्लभ जिनदत्तसूरि जिनचंद्र जिनपति यतींद्राः लक्ष्मीजिनेश्वरगुरुः कुर्वन्तु सुखानि संघस्य ॥४॥ वन्देजिनप्रबोधं जिनचन्द्रयतीश्वरं च जिनकुशलं जिनपद्मसूरि जिनलब्धि जिनचंद्र जिनोदया जजुः ॥५॥ जिनराजं जिनभद्रं, जिनचन्द्रं जिनसमुद्रमरिवरं, सूरि श्रीजिनहंसं, जिनमाणिक्यंच वन्देहं ॥६॥ पत्रिंशद्गुणरत्ननीरनिलयः श्रीशंखवालान्वयः प्रस्फुल्लामलनीर संभवगुणाव्याकोसहंसोपमाः, क्षोणीनायकनम्रकर्मदलना दीपारव्यसाध्वंगजाः शर्मः श्रेणिकराः जयन्तु जगति श्रीकीर्तिरत्नाह्वयाः ॥७॥ करहयनिधिचंद्रे विक्रमाब्दे सुमासे, ससितगुरुसुषले पौषके पूर्णिमायां, सुगुण मुनिपवर्यः शर्मकृन्नित्यचर्यः जयतु जिनसनाथः कीर्तिमरीश्वरः सः॥८॥ वर्षेवरकराश्वनंदवसुधासंख्ये शुभे मासके, पौषे शुक्ल सुघलपूर्णिमदिने प्राप्तं पदं चोत्तम, श्री खरतरगणनायक:
३२ दत्तरि०
For Private And Personal Use Only