________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुल
इलाती चरित्रं
॥४
॥
ACADE-
I
Sax
| यौवनवती रमेव रूपलावण्यादिसंपन्नामृत्. तां च दृष्ट्वा दैवयोगात्पूर्वभवस्नेहेन स भृशं कामातुरो बभूव. तां च परिणेतुकामः स तत्र तां पुनः पुनर्विलोकयन् निश्चेष्टः कोलित इवाजनि. अथेंगिताकारज्ञानकुशलास्ते दुर्ललितास्तं तथाविधं कामदशाविह्ववलं विज्ञाय निजप्रयासं च सफलं मन्यमानाः, श्रेष्ठितश्च भूरिद्रव्यपारितोषिकलाभध्यायंतस्तत्र स्तंभितं तमिलातीपुत्रं कथयामासुः, भो मित्र! अथेतो निजगृहे गम्यते, यतस्तव पिता त्वांविनाऽवृति करिष्यति, इति पुनः पुनस्तैरुक्तः स विमनस्कः कथंचितैस्तद्गृहे नीतः. तत्र शयने सुप्तोऽप्यसो क्षणमपि समाधि न लभतेस्म. अथ तथावस्थमसमाधिगतं निजतनयं वीक्ष्य श्रेष्ठी तं पप्रच्छ, भो वत्स ! अद्य त्वमेवं दुर्मनायितः कथं दृश्यते ? किं केनापि तवापराधः कृतोऽस्ति? किंवा केनापि किंचित्तवापमानं कृतमस्ति ? एवं श्रेष्ठिना मुहुर्मुहुः पृष्टोऽपि मुनिरिव मौनमाश्रितोऽसो किंचिदपि न जल्पति, केवलमुष्णनिःश्वासानेव मुंचतिस्म. ततः श्रेष्ठी तान दुर्ललितान तदयस्यान स. माहूय निजपुत्रस्य दुर्मनःकारणं पप्रच्छ. तदा ते प्राचुः, हे श्रेष्ठिन् ! अयोद्याने स्माभिःसहागतेनानेन कुमारेण लंखिकाख्यनटस्य मनोहरा कन्या नृत्यंती दृष्टास्ति. ततः प्रभृति मदनबाणेर्हतोऽयं तां परिणे-4
%
.0
For Private and Personal Use Only