________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
अजितसेनव्याकरणम् कुम्भानि' परिपूरयितव्यानि । तदा तैः सर्वैरमात्यैराज्ञातम् । सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्युच्छापितानि* रत्नमयानि कुम्भानि परिपूरितानि । यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानामुच्छापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः। यावत सप्तमे दिवसे तथागतोऽर्हन् सम्यक्संबुद्धः शारिपुत्रमौद्गल्यायनानन्दपूर्णमैत्रायणीपुत्रप्रमुखैमहाश्रावकसंधैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो' राजधानीमनुप्राप्तः। अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य भगवन्तं पुष्पैरवकिरन् भगवन्तमेवमाह । अनेन कुशलमूलेन सर्वसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसम्पद्यन्ते। अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि । तस्य भगवतः सिंहासनं प्रदत्तम् । अथ भगवान् सिंहासने निषण्णो राज्ञोऽजितसेनस्य धर्मान् देशितवान् । अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः। अथ राजा अजितसेनो - ज्येष्ठकं राजकुमारं ददाति। इमं राजकुमार प्रव्राजय' । तदहं पश्चात् प्रव्रजिष्यामि। अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म। गच्छानन्द इमं राजकुमारं प्रव्राजय ।
1 कुम्भ is always found in the neuter. " Ms. •राज्ञातवान्
3 Ms. शोधापितं 4 Ms. नुच्छ पिताणि
5 Ms. परिपूर्याणि 6 Ms. याव
7 Ms. राज्ञा 8 Ms. •किरन्तः
9 Ms. प्रदत्तः
10 Ms. राज्ञ अजित.
12 Ms. अयं . 11 Ms. सन्तर्पिता
14 Ms. प्रव्रजापयात 13 Ms. प्रव्रजापय
For Private and Personal Use Only