________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अजितसेनव्याकरणम्
2
सहस्रकोटीको वृद्धमहल्लुकः पुरुषः संस्थितोऽभूत् । अथ स पुरुषस्तं जनकार्यं समाश्वासयन्नेवमाह । मा भैषुर्भोः कुलपुत्राः । अस्मिन्नेव पृथिवीप्रदेशे जेतवनं नाम विहारः ' । तत्र शाक्य - मुनिर्नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । सोऽयं श्रावस्तीं महानगरीं पिण्डाय प्राविशत् । तस्यागमनकालसमये इदं शुभनिमित्तमभूत् । अथ स जनकायस्तं जीर्णकं पुरुषं कृताञ्जलिरे[बमाह ] । यत्तस्य' भगवतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य गु[णवर्णसमुदीरण] समये इदं शुभनिमित्तमभूत् । दृष्टमात्रस्य तस्य तथागतस्यार्हतः सम्यक् संबुद्धस्य कीदृशः पुण्याभिसंस्कारो भविष्यति । अथ स जीर्णकपुरुषस्तं जनकार्यं भगवतो गुणवर्णसमुदीरणतया गाथाभिरध्यभाषत ।
१४
यो लोकनाथस्य हि नामु यः श्रुणे संसारदुःखा विनिमुक्त सो नरो । अपायगामी न कदाचि भेष्यते
1 Ms. भयभोन्
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्गं च सो यास्यति शीघ्रमेवम् ॥ यो लोकनाथस्य हि नामु यः श्रुणे दृढप्रतिज्ञो बहुकल्पकोटिभिः ।
महानुभावो सुगतो महात्मनः कल्पानकोटीनयुतानचिन्तियान् ॥
2 Ms. विहारम्
For Private and Personal Use Only
3 Ms. यस्तस्य
१०५