________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आर्यश्रीमहादेवीव्याकरणम् भगवन् सुभाषितेयं वाक्। ये श्रिया महादेव्या नामधेयानि धारयिष्यन्ति तेषामपीमा गुणानुशंसा भविष्यन्ति ।
अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् । कुत्र भगवन् श्रिया महादेव्या कुशलमूलमवरोपितम् । भगवानाह। गंगानदीवालुकासमानां तथागतानामन्तिकात श्रिया महादेव्या कुशलमूलमवरोपितम् । भूतपूर्वमवलोकितेश्वर अतीतेऽध्वनि रत्नसंभवायां लोकधातौ रत्नकुसुमगुणसागरवैदूर्यकनकगिरिसुवर्णकांचनप्रभासश्रीर्नाम तथागतो लोके उदपादि। तस्यान्तिके श्रिया महादेव्या कुशलमूलमवरोपितमन्येषां च बहूनां तथागतानामन्तिके। इमानि च तथागतनामानि तस्याः श्रिया महादेव्याः कुशलमूलविवृद्धिसंपत्तिकराणि । सदानुबद्धानि तानि] श्रिया महादेव्या यानीह समुदीरितानि सर्वपापहराणि सर्वकिल्विषनाशनानि सर्वकार्यविमलीकरणानि धनधान्याकर्षणविवृद्धिकराणि दारिद्य्परिच्छेदनकराणि' सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगावर्जनाकर्षणकराणि सर्वेत्युपद्रवोपसर्गोपायाससर्वकलिकलहविग्रहविवादप्रशमनकराणि षटपारमितानिष्पादनकराणि ।
1 Tib. माशु ........मारमा । 2 Tihadds here # R I समोरा-श्रुत्वा च साधयिष्यन्ति। 3 Ms. ०मानि । 4 Ms. वालिका। 5 Tib. २ असार । 6 'गुरव । रेसा । : Ms. दारिद्रयो । 8 Tib. १२ वी शाा सुनार ।
For Private and Personal Use Only