________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशमुखम् गताः सुमुखीभूता अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः। एवं बहुकरोऽयं हृदयम् तस्मात्तर्हि श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा सत्कृत्यायं हृदयं साधयितव्यम्। अनन्यमनसा नित्यं साधयितव्यम्। कल्यमुत्थाय अष्टोत्तरवारशतं प्रवर्तयितव्यम् । दृष्टधर्मिका गुणा दश परिग्रही[तव्याः। कतमे दश। यदुत निर्व्याधिर्भविष्यति। सर्वतथागतैः परिगृहीतश्च भविष्यति । धनधान्यहिरण्या भर]णमस्य अक्षयं भविष्यति। सर्वशत्रवो वश्या अवमर्दिता भविष्यन्ति। राजसभायां प्रथममालपितव्यं मंस्यति । न विषं न गरं न ज्वरं न शस्त्र काये क्रमिष्यति। नोदकेन कालं करिष्यति। नाग्निना कालं करिष्यति। नाकालमृत्युना कालञ्च करिष्यति। अपरे चत्वारो गुणानुशंसा उद्ग्रहीष्यति । मरणकाले तथागतदर्शनं भविष्यति। न चापायेषूपपत्स्यते। न [विषमा परिहारेण कालं करिष्यति। इतश्च्युतः सुखावत्यां लोक. धातावुपपत्स्यते।
स्मराम्यहं भगवन्निति दशानां गङ्गानदीवालुकासमानां कल्पानां ततः परेण परतरेण मन्दारवगन्धो नाम तथागतोऽभूत्। तत्र मया ' गृहपरिभूतेनायमुद्गृहीतम्। चत्वारिंशत् कल्पसहस्राणि संसाराः पश्वान्मुखीकृताः । एष च मया हृदयं प्रवर्तित्वा सार्वस्मिन' करुणायनज्ञानगर्भबोधिसत्त्वविमोक्षं
1 ཁྱིམ་ པར་ གྱུར་ པས་ 2 Ms. कृतानि * पूलाहाणे . २६मा
करुणायनम्
For Private and Personal Use Only