________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Cha
घण्टाकर्ण प्रतिष्ठाविधिः
लघुस्नात्रविधिः
॥२६॥
92DecemovemenexpeDExpecar
इति वस्त्रपूजा । ततो नानाविध-खाद्य-पेय-चूष्य-लेह-संयुतं-नैवेद्यं स्थानद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठ:
सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् ।
अन्नं जिनाग्रे रचितं, दुःख हरतु नः सदा ॥१॥ इति जळचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रे
भो भोः सर्वे लोकपालाः सम्यग्दृशः सुराः ।
नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव मंत्रेण । तत आरात्रिक मंगळदीपश्च पूर्ववत् । शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा
श्रीखंडकपुरकुरंगनाभि-प्रियंगुमांसीनतकाकडैः ।
जगत्त्रयस्याधिपतेः सपर्या-विधौ विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धूपोत्क्षेपः, शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा
@expercemercreepeecootera2DEO
॥ २६॥
For Private and Personal Use Only