________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण IN प्रतिष्ठाविधिः
जिनार्चनविधि
DOC
॥
२
॥
DODCCCORDOIटा
॥ जिनार्चनविधिः ॥ पूर्व शुभदिने, शुभनक्षत्रे, शुभलग्ने प्रतिष्ठा-विधिमारभेत-तत्र प्रथम क्षेत्रशुद्धिकरणम् । वेदिस्थापनादिविधिस्तु आचारदिनकरग्रन्थादबसेयः । ततो जिनाचनविधिरईत्कल्पकथनानुसारेण प्रोच्यते । स यथा
श्राद्धः केवलदृढसम्यक्त्वधारी प्राप्तगुरूपदेशः सर्वांगसुस्नातः सदशाव्यंगश्वेतवस्त्रधरः कंकणमुद्रांकितकरी बद्धधम्मिनः शुचिपरिधानः कृतोत्तगसंगः स्ववर्णानुसारेण (स्वलक्ष्म्यनुसारेण) जिनोपवीतोत्तरीयोत्तरासंगभृत् कृतमुखकोशोऽनन्यचित्तो जिनालये चैत्ये वा एकान्ते जिनार्चनं कुर्यात् ॥
प्रथमं स्नानपीठे श्रीशान्तिनाथपतिमा स्थापयेत् । तत्पतिमाया अळामेऽन्यजिनप्रतिमायामपि श्रीशान्तिनाथप्रतिमा कल्पयेत् तन्मन्त्री यथा___ॐ नमोऽहद्भ्यस्तीर्थकरेभ्यः श्रीशान्तिनाथेभ्यो जिनेभ्योऽनायन्तेभ्यः समबलेभ्यः समकृत्येभ्यः समप्रभावेभ्य: समकेवलेभ्यः समतचोपदेशेभ्यः समपूजनेभ्यः समकल्पनेभ्यः श्रीशान्तिनाथभगवान् (सममस्त्वत्र तीर्थकरनाम) पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र पतिमायां सन्निहितोऽस्तु स्वाहा ॥ अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति ॥ अत एव वासक्षेपेण अन्यपतिमायां शान्तिजिनकल्पना ॥
तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णा जिनार्चनपूजां विदध्यात् ॥
Dom20poem
KI ॥ २ ॥
For Private and Personal Use Only