SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir વસુભૂતિના પુત્ર, પૃથ્વીમાતાથી જન્મ પામેલા, ગૌતમ ગોત્રમાં રત્ન સમાન, દેવેન્દ્રો, અસુરેન્દ્રો અને માનવેનો જેમને સ્તવે છે એવા શ્રીઈદ્રભૂતિ નામના તે ગૌતમ (ગૌતમસ્વામી) મને ઈચ્છિત ફળને आपना२। थाो . (१) . श्रीवर्धमानात् त्रिपदीमवाप्य, मुहूर्त मात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशापि, स गौतमो यच्छतु वाग्छितं मे ॥२॥ 'येन श्रीवर्धमानात् त्रिपदीमयाप्य चतुर्दशाऽपि पूर्वाणि अङ्गानि [च] मुहूर्तमात्रेण कृतानि, स गौतमो मे वाञ्छितं यच्छतु ' इत्यन्वयः । येन-तच्छब्देन निर्दिश्यमानेन [श्रोगौतमेन] । श्रीवर्द्धमानात्वर्धिषीष्ट इति आशास्यमानः वर्धमानः, श्रिया युक्तः वर्धमानः श्रीवर्धमानः, तस्मात् तथा । जननीकुक्षौ समागते सति धनधान्यादीनां वृद्धेः जनकाभ्यां वर्द्धमान इति कृतगुणनिष्यन्ननाम्नः, वर्तमानशासनाधिपतेः श्रीमहावीरस्वामिनः । त्रिपदीम्-' उत्पद्यते व्ययते ध्रुवति' इति त्रयाणां पदानां समाहारः त्रिपदी, तां तथा । अवाप्य-क्रमेण त्रिः प्रदक्षणीकृत्य प्राप्य । श्रीमहावीरदेवाय प्रथम प्रदक्षिणां दत्वा ‘प्रसद्य भगवन् ! कथय मे तत्वम् ' इति कथिते सति 'उपन्नेइ वा' [उत्पद्यते वा], तथैव द्वितीयवारं करणे ‘बिगमेइ वा' [विगच्छति वा ], पुनस्तृतीयवारं तथैव कृते 'धुवेइ वा' [ध्रुवति वा] इति त्रयाणां वचनानां भगवतस्सकाशात् लामे सति गणधरनामकर्मोदयतः विमलप्रतिभया मुहूर्तमध्ये एव चतुर्दशपूर्वाणि द्वादशाङ्गानि च भगवान् गौतमः गुम्फितवानिति भावः । चतुर्दशापि पूर्वाणि द्वादश अङ्गानि च, तेषां नामानि [1] उत्पादपूर्वम्, [२] अप्रायणीयपूर्वम् , [३] वीर्यप्रवादपूर्वम् , [४] अस्तिनास्तिप्रवादपूर्वम्, [५] ज्ञानप्रवादपूर्वम्, [६] सत्यप्रवादपूर्वम् , For Private And Personal Use Only
SR No.020342
Book TitleGautamswamyashtakam
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasurishiwar Gyanmandir
Publication Year1954
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy