________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानपञ्चमी कथा
श्रेष्ठी, भार्याऽभूत्तस्य सुन्दरी ॥२६॥ पञ्चपुत्रास्तयोरास-पालाख्यस्तेजपाळकः । गुणपालो धर्मपालो, धनसाराभिधः द्वादशपर्व-16
पुनः ॥२७॥ तयोलीलावती शील-वती रंगावती पुनः। मंगावती चतस्रश्च, सुता रूपादिशोभिताः ॥२८॥ एकदा कथा-संग्रह
जिनदेवेन, पश्चाऽपि तनया निजाः। कळाचार्यान्तिके मुक्ताः, कलाग्रहणहेतवे ॥२९॥ चापल्यं ते प्रकुर्वन्ति, परं बध्य॥३॥ IN
यनं न हि । प्रकुर्वन्ति यदा विद्वां-स्तास्ताडयति कम्बया ॥३०॥ रुदन्तस्ते तदाऽऽगत्य, मातुनिवेदयन्ति हि । दुःखं माताऽप्यवादीकि, पठनेन प्रयोजनम् ? ॥३१॥ उक्तश्च- "पठितेनाऽपि मर्त्तव्यं, शठेनाऽपि तथैव च । उभयोमरणं दृष्ट्वा, कण्ठशोषं करोति ? कः ॥३२॥" पण्डितस्याऽप्युपालम्भ, दत्ते पुस्तकमीर्षया । साऽज्वाळयत्सुतान् वक्ति, न गन्तव्यमतः परम् ॥३३॥ एतद् व्यतिकरं ज्ञात्वा, श्रेष्ठी पोवाच हे पिये। को जडेभ्यः सुतेभ्यो नो, निजकन्याः प्रदास्यति ? ॥३४॥ व्यवसायं कथं चैते, करिष्यन्ति ? निजोदरम् । भरिष्यन्ति ! कथं मान-मवाप्स्यन्ति ? कथं जने ॥१५॥ उक्तञ्च-"माता वैरी पिता शत्रु को येन न पाठितः। न शोभते सभामध्ये, हंसमध्ये बको यथा ॥३६॥ | विद्वत्वश्च नृपत्वश्च, नेव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥३७॥” इति श्रेष्ठिवचः
श्रुत्वा, सा प्रोवाच न कि सुतान् । यूयं पाठयथाऽत्रास्ति, को दोषो मे निरागसः ॥३८॥ इत्युक्त्वा हकितः श्रेष्ठी, | तया मौनं चकार सः। अथ पश्चाऽपि ते पुत्राः, तयोः प्राप्ताश्च यौवनम् ॥ ३९ ॥ परन्तु कोऽपि तेभ्यो न, दत्ते | मूर्खतया सुताम् । ततः श्रेष्ठी जगाद स्त्री, पापेऽन्तरायकारिणि ! ॥४०॥ मूर्खा एव त्वया पुत्रा, रक्षिताः कोऽप्यतः
सुताम् । न ददात्यथ सा पाह, पापिष्ठो जनकस्तव ॥४९॥ येनैवं शिक्षितोऽसि वं, विमूढमतिनेति हि । दम्पत्योः कलहो बाद, जातस्तयोः परस्परम् ॥ ४२ ॥ यथा चोक्तं-"आः किं सुन्दरि ! सुन्दरं न कुरुषे ? किं न करोषि ?
Coemocroecocococc0
Domeroecoccccceepe
For Private and Personal Use Only