________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ६७ ॥
www.kobatirth.org
विनयबहुमानोप- धानकालैश्च वर्जितम् ॥ २१६ ॥ शङ्का कांक्षा विचिकित्सा, मूढहगूनोपबृंहणा । अस्थिरीकरणं धर्मवात्सश्यममभावना ।। २१७ ॥ दर्शने चरणे चाट -प्रवचनसोः पुनः । अपाळने प्रमादेन, पुनरनुपयोगतः ॥ २१८ ॥ स्वशक्त्या तपसोचा- भ्यन्तरयोरनादरम् । अस्फोरणं च वीर्यस्य, त्रियोगेधर्मकर्मसु ॥ २१९ ॥ भो भो भव्याचतुर्मासी - माराधयन्तु भावतः । येनेह परलोके स्या- दक्षयं निर्मलं सुखम् ॥ २२० ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रशस्ति :
जिनमहेन्द्रसूरीशा वीरपरम्परागताः । तत्करदीक्षिताः शुद्धाः, श्रीमोहनमुनीश्वराः || २२१ ॥ खरतरगणोद्योतकारकाः सरलाशयाः । आसन् जिनयशस्सूरीश्वरास्तत्पादसेवकाः ||२२२|| राजमुनिमहाराजा - स्तेषामाज्ञानुवर्त्तिनः । तेषां शिष्या महाप्राज्ञाः, श्रीजिनरत्नसूरयः ॥ २२३|| पाठकलब्धिना प्रेम - मुनिगणेः समाग्रहात् । पूतस्याकारि माहात्म्यं, चतुर्मासिकपर्वणः ॥ २२४ ॥ संवद्वाणखशून्याक्षि (२००५) - वर्षे ज्येष्ठे च मेचके । अजयमेरुदुर्गे च कृतिरियं मया कृता ।। २२५ ॥ युग्मम् ॥
॥ इति श्रीचतुर्मासी - पर्व - व्याख्यानम् समाप्तम् ॥
exte
For Private and Personal Use Only
चातुर्मासी पर्व-कथा
॥ ६७ ॥