________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ६० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लौकिकः पुनः । चतुः पण्डितदृष्टान्तः, प्रसङ्गात्कथ्यतेऽत्र च ॥ ९४ ॥ जितशत्रुनृपश्चासी - इसन्तपुरपत्तने । अन्यदा भूपतेः शास्त्रं श्रोतुमिच्छाऽभवत्तराम् ॥ ९५ ॥ चतुर्भिः पण्डितैश्वापि श्लोकानां लक्षलक्षकम् । शास्त्रचतुष्कं सन्दर्भ्य, नृपस्य पुरतोऽकथि ।। ९६ ॥ नृपेणोक्तमिमे ग्रन्था, महाप्रमाणका मया । बहुकालेन विश्रोतुं न शक्यन्ते क्षणं विना ॥ ९७ ॥ तस्मात्स्वल्पाक्षरैरेवै तेषां सारो निगद्यताम् । तदा तत्सारभूतं ते, श्लोकं विरच्य चावदन् ॥ ९८|| तथाहि" जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः पाञ्चालः स्त्रीषु मार्दवम् ॥ ९९ ॥ " एवं स्तोकाक्षरैरेव, बह्रर्थानां निरूपणम् । द्वादशाङ्गीति संक्षेपा - ख्यसामायिकमुच्यते ॥ १०० ॥ ( ५ ) । विज्ञेया निरवद्याख्ये, सामायिके दयान्विते । श्रीधर्मघोषसूरीश - शिष्यधर्मरुचेः कथा ॥ १०१ ॥ विशुद्धाऽऽहारपानीयं, लातुं पुरे भ्रमन् क्रमात् । रोहिणी ब्राह्मणीगेहे, प्रविवेश मुनिः स च ॥ १०२ ॥ मिष्टभ्रान्त्या कुटुम्बार्थ, निष्पादितं तया तदा । कटुक तुम्बिकाशाकं ज्ञातं पश्चान्महाकटु || १०३ || दुष्टबुद्धया तया सर्वं, शाकं तत्साधवेऽर्पितम् । ऋजुस्वभावतः सोऽपि, तल्लावोपायं गतः ॥ १०४॥ गुरुभ्यो दर्शितं शाकं तद् दृष्ट्वा गुरवोऽवदन् । भो ! मुनेऽस्ति विषप्राय-मिदं शाकं च मृत्युदम् ॥ १०५ ॥ निर्दोषस्थण्डिले तस्मात् परिष्ठापय तत्तदा । परिष्ठापयितुं शाकं मुनिः पुराद्वहिर्गतः ॥ १०६ ॥ संलग्नस्तत्र तच्छाकं, परिष्ठापयितुं मुनिः । तावत्तन्मध्यतो बिन्दु - रेकस्तु पतितो भुवि ॥ १०७ ॥ तद्गन्धात्कीटिका बहूव्य, आगत्य मिळिता मृताः । तद्गन्धग्रहणात्सयो, दृष्टास्तेनाघभीरुणा || १०८ || स च जीवदयां चित्ते, सन्धार्य स्वयमेव च । तच्छाकं भुक्तवान् मृत्या, स्वर्ग ययौ समाधिना ॥ १०९ ॥ ( ६ ) । वस्तुतश्वपरिज्ञाने, सर्वकर्म विनाश के सामायिके परिज्ञारूये, इलापुत्रकथोच्यते ||११०|| इलाख्यनगरे श्रेष्ठी, घनदत्ताभिधो घनी । इलापुत्रः सुतस्तस्ये
For Private and Personal Use Only
चातुर्मासी पर्व- कथा
॥ ६० ॥