________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ २९ ॥
ez.vioe
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजन्!, विवाहार्थं च सत्वरम् । श्रुत्वैवं तत उत्थाय, नृपो ययौ स्वमन्दिरम् ॥ ३० ॥ एकान्ते नृप आहूयो बाच राशीं च मन्त्रिणम् । किं कर्त्तव्यं ? सुतस्त्वस्ति, पंगुर्दास्यति ? कः सुताम् ? ॥ ३१ ॥ चित्ते किञ्चिद्विचार्याऽथाssहूय तान् सचिवोऽवदत् । नाधुनाऽत्र कुमारोऽस्ति, किन्तु मातुलसद्मनि ||३२|| इतो मातुलसनाऽस्ति, दूरं द्विशतयोजनम् | मोहनीपत्तने तेना -ऽधुना लग्नं भवेन्नहि ॥ ३३ ॥ पञ्चाच्च ज्ञास्यतेऽथोक्तं, तैर्दूरेऽध्वा तु वर्त्तते । अतो लग्नं च निर्धार्य, प्रदेयं भवता वरम् ॥ ३४ ॥ स्वयमपि समागम्य, लग्ने श्रुत्वेति भूपतिः । लग्नं षोडशमासान्ते, भावीति निरधारयत् ॥ ३५ ॥ ततो लग्नं गृहीत्वाऽगुः स्वदेशं तेऽप्यऽथावदत् । चिन्तातुरो नृपः कार्य ?, उपायः शीघ्रमत्र कः ||३६|| सत्वरमेव यास्यन्ति, षोडशमासकास्तदा । नृपराशीप्रधानैश्वो - पायाः संशोधिता घनाः ॥ ३७॥ परं न चटितो हस्ते, कोऽप्युपायोऽथ तेऽखिलाः । निराशीभूय दुःखेन, समयं गमयन्ति च ॥ ३८ ॥ तस्मिन्नवसरे तत्र, साधुपञ्चशतीयुतः । चतुर्ज्ञानधराचार्यो, गांगिलसूरिराययौ ॥ ३८ ॥ सार्द्धं स्वपरिवारेण, राजा पौरा मुनीश्वरम् । नखा, स्थिता यथास्थानं, सूरिणाऽऽरंभि देशना ॥ ४० ॥ " जीवदयाइ रमिज्जर, इंदियवग्गो दभिज्जइ सयावि । सचं चैव दिज्जs, धम्मस्स रस्समिणमेव ॥ ४१ ॥ जयणा उ धम्मजणणी, जयणा धम्मस्स पाळिणी चैव । तह वुढिकरी जयणा, एतावा जयणा ।। ४२ ।। आरंभे नत्थि दया, महिलासंगेण नासए बंभं । संकाए सम्मत्तं पव्वज्जा अत्थगणं ||४३|| जे बंभचेरभट्टा, पाए पार्डति बंभयारीणं । ते हुंति टुंटमुंटा, बोहि वि पुण दुलहा तेसिं ॥ ४४॥ | " मूलं दयाsस्ति धर्मस्य, हिंसा मूलमघस्य च । हिंसां करोति यो जीवः कारयत्यनुमोदते ॥ ४५ ॥ एते त्रयोऽपि विज्ञेयाः सदृशाश्च भवान्तरे । रोगी पङ्गुर्महादुःख- स्थानं भवति हिंसकः ॥ ४६ ॥ देशनान्ते नृपोऽपृच्छ-द्भगवन् ! केन
For Private and Personal Use Only
मेरुत्रयोदशी पर्व-कथा
॥ २९ ॥