________________
Shri Malain Aradhana Kendra
तद्, व्याख्यातं च वेयावच्चगराणमित्यादिसूत्रं, तथा चोक्तं- "एवमेतत्पठित्वेत्यादि यावत्पठंति वेयावच्चगराणमित्यादि", ततश्च स्थितमेतत् - यदुत वेयावच्चगराणमित्यप्यधिकारोऽवश्यं भणनीय एव, अन्यथा व्याख्यानासंभवात्, यदि पुनरेषोऽपि वैयावृत्यकराधिकार उञ्जयंताद्यधिकारवत् कैश्चिद् भणनीयतया यादृच्छिकः स्यात्तदा उज्जितसेलेत्यादिगाथावदयमपि न व्याख्यायेत, व्याख्यातश्च नियमभणनीयसिद्धादिगाथाभिः सहायमनुविद्धसंबंधेनेत्यतोऽत्रुटितसंबंधायातत्वात् सिद्धाद्यधिकारवदनुस्यूत एव भणनीयः, अथ न प्रमाणं तत्र व्याख्यातसूत्रमिति चेत् एवं तर्हि हंत सकलचैत्यवंदनाक्रमाभावप्रसंगः, तत्रैवास्या एवं क्रमस्य दर्शितत्वात् तदन्यत्र तथा तद्व्याख्यानाभावात्, व्याख्यानेऽप्येतदनुसारित्वात् तस्य, पश्चात्कालप्रभवत्वात्, नव्यकरणस्य तु सुंदरस्यापि भवनिबंधनत्वात्, तत्रोक्तस्य तूपदेशायाततया स्वच्छंद कल्पितताऽभावादिति परिभावनीयं बह्वत्र माध्यस्थ्यमनसा, विमर्शनीयं सूक्ष्मधिया, विचिंतनीयं सिद्धांतरहस्यं, पर्युपासनीयाः श्रुतवृद्धाः प्रवर्तितव्यं असदाग्रहविरहेण, यतितव्यं निजशक्त्यानुकूल्यमिति । एवं द्वितीयदशमैकादशवर्जिताः शेषाः प्रथमाद्या द्वादशपर्यंता नव अधिकारा उपदेशायातललितविस्तराव्याख्यातसूत्रसिद्धा इति सिद्धं, आदिशब्दात् पाक्षिकसूत्रचूर्ण्यादिग्रहः, तत्र सूत्रं - 'देवसक्खिय'त्ति, अत्र चूणिः - विरइपडिवत्तिकाले चिइवंदणाइणोवयारेण अवस्सं जहासंनिहिया देवया संनिहाणंमि भवन्ति, अओ देवसक्खियं भणियति, अयमत्र भावार्थ:- तावद् गणधरैदर्थं पंचसाक्षिकं धर्मानुष्ठानं प्रतिपादितं, लोकेऽपि व्यवहारदाढर्थस्य तथा दर्शनात्, तत्र देवा अपि साक्षिण उक्ताः, ते च चैत्यवंदनाद्युपचारेणासन्नीभूता साक्षितां प्रतिपद्यंते, चैत्यवंदनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदानादिः क्रियते, अन्यस्य तत्रासंभवादश्रुतत्वाच्च ततश्चैवमायातं यथा चैत्यवंदनामध्ये देवकायोत्सर्गादि करणीयमेव, अन्यथा तत्रान्यत्तदुपचाराभावे देव
श्रीदे०
चैत्य०श्रीधर्म० संघा चारविधो
॥ ३८९ ॥
comm,
www.kobatirth.org
For Private And Personal
Acharya Shri Kailuri Gyanmandir
सुरस्मरणसिद्धिः
॥३८९ ।।