________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsrun Gyanmandit
ईर्यापथिकीव्याख्या
श्रीदे० चैत्यश्री धर्म० संघाचारविधौ ॥२७॥
दोसमोहमिच्छत्तअन्नाणधेहिं अदिट्ठपरलोयपच्चवायेहिं कूरकम्मनिग्धिणेहिंति परमसंवेगमावण्णे सुपरिप्फुडं आलोइत्ता निंदित्ता गरहित्ता पायच्छित्तमणुचरित्ता नीसल्ले अनाउलचित्ते असुहकम्मक्खयट्ठा किंचि आयहियं चिइवंदणाइ अणुट्टिजा तया तयढे चेव उवउत्ते से भविजा, तया य सेयतया तस्स णं परमेगग्गचित्तसमाही हवेजा, जया परतया चेव सव्वजगजीवपाणभूयसताणं अहिडफलसंपत्ती हविजा" अत्र चैवं निरुक्तोऽर्थः-मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मित्ति य मेराइ ठिओ | दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कई मे पावं दुत्तिय देवेमि तं उसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥२॥) अथ ईर्यापथिकीसूत्रं व्याख्यायते, तच्चेदम्-'इच्छामी'त्यादि, इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुं, कुतः१-इरियावहियाए १ विराहणाए २, ईर्या-गमनं तद्युक्तः पंथाः ईर्यापथः तत्र भवा ईर्यापथिकी विराधना-जंतुबाधा,मार्गे गच्छतां विराधनेत्यर्थः, तस्याः, असिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्यात् , न तु शयनादेरुत्थितस्य, अतोऽन्यथा व्याख्यातत्र ईर्यापथः-साध्वाचारः यदाह-"र्यापथो ध्यानमौनादिकं भिक्षुवतं" तत्र भवा ईर्यापथिकी विरोधना नद्युत्तरणशयनादिमिः प्राणातिपातादिका साधाचारातिक्रमरूपा तस्याः प्रतिक्रमितुं इच्छामीति योगः, व सति विराधना ?-गमणागमणे, गमने च स्वस्थानादन्यत्र आगमने च पुनः तत्रैव, तत्रापि कथं विराधना ?-पाणकमणे इत्यादि, प्राणिनो द्वीन्द्रियादयः तेषामाक्रमणं-संघट्टनं एवं बीयकमणे०, वीजानि-शाल्यादीनि हरियक्कमणे-हरितानि-शेषवनस्पतयः, आभ्यां च सर्ववीजानां शेषवनस्पतीनां च जीवत्वमाह, प्रयोगश्चात्र-सचेतना वनस्पतयः आहारादिसद्भावे वृद्धिमच्चाद्वालकशरीरवत् , यो य आहारसद्भावे वृद्धिमान् स स सचेतनो यथा बालकशरीरं, वृद्धिमंतश्चैते आहारसद्भावे अतः सचेतना इति, इतश्च-सात्मका वनस्पतयः सर्वत्वगपहरणे मरणात् गर्दभवत् ,
॥२७०॥
For Private And Personal