SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ ( 844 ) इह खलु परमानन्दमयादपि पुरुषात् ब्रह्मपुच्छं प्रतिष्ठेति ब्रह्मतोऽपि परात्परो रसो वैषः रसन्तं ह्येवायं लब्धानन्दी भवतीति श्रुत्या सूच्यमानो मल्लानामश निर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमानिति सर्ववेदान्तसारण निखिलप्रमाणाग्रवतिना श्रीभागवतेन रसत्वेन विवियमाणः ब्रह्मणो हि प्रतिष्ठाहमिति श्रीगीतोपनिषदा च स एवायमिति संमन्यमानः श्रीव्रजराजनन्दन एव शुद्धसत्त्वमयनिजनामरूपलीलारचनादिवसुरेव कमपि हेतुमनपेक्षमाण एव स्वच्छ एव जनश्रवणनयनमनोबुद्धवादीन्दियवृत्तिषुवतरति । यथैव यदुरघादिवशेष स्वेच्छयैव कृष्णरामादिरूपेण तस्य भगवत इव तद्रूपायाः भक्तरपि स्वप्रकाशतासिद्धयर्थमेव हेत्वनपेक्षिता । तथा हि “यतो भक्तिरधोक्षजे अहेतुकप्रतिहिते" । इत्यादौ हेतुं विनैव आविर्भवतीति तत्रार्थः। तथैव यदृच्छया मत्कथादौ मद्भक्तिञ्च यदृच्छयेत्यत्र यदृच्छयेत्यस्य स्वाच्छन्द्येनेत्यर्थः । यद्गुच्छास्वैरते इत्यभिधानात् यद्गृच्छया केनापि भाग्येनेति व्याख्याते भाग्यं नाम किं शुभकर्मजन्यं तदजन्यं वा। आद्य भक्तः कर्मजन्यभाग्यजन्यत्वे कर्मपारतन्त्र्येण स्वप्रकाशतावगमः। द्वितीये भाग्यस्यानिर्वाच्यत्वेनाज्ञेयत्वादसिद्धेः कथं हेतुत्वं भगवत्कृपैष हेतुरित्युक्ते तस्यापि हेतावन्विष्यमाणे अनवस्थाप्रसङ्गः। तत्कृपायाश्च निरुपाधिकाया हेतुत्वे तस्यासार्वत्रिकत्वेन तस्मिन् भगवति वैषम्यं प्रसज्येत दुष्टनिग्रहस्वभक्तपालनरूपन्तु वैषम्यं तत्र न दूषणावहं प्रत्युत भूषणाघहमेव । Colophon : Leaf marked ङ, इति श्रीमाधुर्यकादम्बिन्यां सर्वोत्कर्षो नाम प्रथमामृतवृष्टिः ; Leaf ज, इति ० द्वितीयामृतवृष्टिः ; Leaf marked ण, ० सर्वावग्रहप्रशमनी नाम तृतीयामृतवृष्टिः; Leaf marked थ, ० निष्पादिबन्धुरा नामामृतवृष्टिश्चतुर्थी ; Leaf marked द इति ० उपलब्धास्वाद्या नाम पञ्चम्यमृतवृष्टिः ; .Leaf marked न, ० मनोहारिणी नाम षष्ठ्यमृतवृष्टिः ; Leaf marked क, ० परमानन्दनिष्यन्दिनी नाम सप्तम्यमृतवृष्टिः ; Leaf marked स, ० पूर्णमनोरथा नामाष्टम्यमृतवृष्टिः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy