________________
It begins thus:---
( 838 )
वन्दे राधामुखाम्भोजमधुसम्भोग अपरम् । गोविन्दं परमानन्दं वृन्दाकानननायकम् ॥ श्रीमच्चैतन्यपादाब्जस्यन्दितामृत सद्रसः । सन्तर्पयतु संसारतप्त चेतोमधुव्रतम् ॥ नानादुःखदवाद्दितान् भव [1] रण्यान्तर [ : ] स्थायिनः (१) । संमूढान् कलिकालजालविवशान् आलोक्य लोकान् हरिः ॥ आविर्भूय सरागभक्तिसुधया सिञ्चन् समाजीवयत् । तानद्वैतसमाख्यया विलसितः पायादपायात् स नः ॥ नित्यानन्दमनन्तांशं करुणासारसागरम् । नमामि परमानन्दं तथा वैष्णवमण्डलीम् ॥ राधामोहन राम्र्माविष्कृतोऽयं मधुरान्तरः । आनन्दयतु भक्तान् श्रीकृष्णभक्तिसुधार्णवः ॥ अत्र इह कर्मजितो लोकः क्षीयते अमुत्र पुण्यजितो लोकः क्षीयते इत्यादि श्रुत्या
धर्मार्थकाममोक्षाणां पुरुषार्थचतुष्टयानां मोक्षस्यैव परम नित्यत्वमुक्तं ।
It consists of two parts, the first part comes to an end in leaf 39B:- इति श्रीकृष्णभक्तिसुधार्णवे भक्तिस्वरूपनिरूपण पूर्व विभागः । अथोपास्यः ।
The Colophon of the second part:
इति श्रीकृष्णभक्तिधार्णवे नैमित्तिक विवरणं नाम उत्तरविभागः । श्रीकृष्णभावमधुरामृतलेश लिप्सासम्प्रेरितेन विवृतं किल मोहनेन । एतच सात्वतमतं स्वमतिप्रचारमर्यादमुत्सुकधिया रुचिरप्रबन्धम् ||