SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ It begins: (827) श्रीकृष्णाय नमः ॥ गुरु श्री सुन्दरानन्दं सुन्दरानन्दविग्रहम् । वन्दे यस्मात् प्रवक्ष्यामि भक्तिभावप्रदीपकम् ॥ यश्चैतन्यं जगतां जनयति कृष्णप्रकाशभावेन । नित्य सुखप्रदमनिशं काञ्चनगौरं नमस्यामि ॥ चन्दामहे भक्तजनान् भक्तिं चैवेश्वरं तथा । भक्तात् प्रकाशते भक्तिः भक्त्या तं भजते यतः ॥ किञ्च विशेषतः । ये धर्मार्थकाममोक्षविषये भक्तेः सुखान्निःस्पृहाः पूर्णानन्दसुधानिधौ जनयति प्रोद्दामचीचीश्च या । हेतोर्हेतुरशेषशक्तिविभवः स्वेच्छामयो यः सदा भक्तांस्तानथ तां च भक्तिमथ तं वन्दे परेशं मुदा ॥ देद्वेदान्तचिद्वा सांख्यचित् प्रकृतिपुरुषं । (१) यं तार्किकश्च कर्त्तारं तं निगूढ़ नमाम्यहम् ॥ शास्त्राणां कारकान् सर्व्वान् नमस्यामि प्रयत्नतः । ग्रन्थसन्दर्भतो येषां कृष्णभक्तिप्रकाशनम् ॥ बुधैः प्रोक्तं पूर्वैर्यदपि च हरेर्भक्तिचरितम् । दाम्येवं तस्मात् कमपि च तदर्थं पुनरहम् ॥ यथा धातुः सृष्टौ प्रभवति च बीजादिकमथो यवादेः सामान्ये विरचयति तस्यार्पणविधिम् ॥ यथा मालाकारेण नानावृक्षाणां कुसुमान्याहृत्य माला ग्रथ्यते तद्वत पुराणादिकल्पवृक्षाणां तदर्थश्लोककुसुमान्याहृत्य भक्तिभावप्रदीपनामा ग्रन्थः श्री सुन्दरानन्दानुगृहीतेन निरूप्यते ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy