________________
( 709 )
त्रिकाण्डात्मकशास्त्रस्य गीताख्यस्य तथा मया । शारीरकस्य चाप्यर्थः संक्षेपेणेह वक्ष्यते ॥ ५ ॥ शास्त्रैकदेशसम्बन्धशास्त्रकार्य्यान्तरे स्थितः । इति लक्षणयोगोऽत्र निःसन्दिग्धव्यवस्थितः ॥ ६ ॥ एवं वेदान्तशास्त्रीयैरनुबन्धर्भवेदिदं । अनुबन्धि यतस्तस्य प्रकरणं त्विदं स्मृतम् ॥ ७ ॥ शास्त्रीयाः केऽनुबन्धाः स्युरिति चेच्छृणु तानपि । अधिकाभियौ द्वौ सम्बन्धश्च प्रयोजनम् ॥ ८ ॥ इत्येते ह्यनुबन्धा चत्वारः सन्ति शास्त्रगाः । एतान् दृष्ट्वा तु बुद्धिमान् शास्त्रादौ सम्प्रवर्त्तते ॥ ६ ॥ चतुर्भिः साधनैर्युक्तो योऽधिकारी स कल्प्यते । जीवस्य ब्रह्मणैक्यं यत् तद्विषयं इहोच्यते ॥ १० ॥ अशेषानर्थनाशो यो नित्यानन्दस्य वाप्तिता । प्रयोजनमिहोक्तं तत् सम्बन्धी बहुधा स्मृतः ॥ ११ ॥ वेदान्तः प्रतिपाद्य ेत ऐक्येन ब्रह्मजीवयोः । तेषां च विदुः सम्बन्धं बोध्यं बोधकतां बुधाः ॥ १२ ॥
वेदान्तैश्चैक्यबोधस्यीत्पाद्योत्पादकतां विदुः । शास्त्रयुक्त्योस्तु सम्बन्धः प्रयोजकः प्रयोज्यता ॥ १३ ॥
बोधयुक्तयोश्च सम्बन्धः साधनसाध्यताह्वयः । एवं चतुर्विधः प्रोक्तः सम्बन्धोऽत्र बुधैः खलु ॥ १४ ॥ ननु भेदस्य सत्यत्वात् बन्धस्याप्यमृषात्मतः । तस्माद्विषयसंसिद्धिः सिद्धेयच्च न प्रयोजनम् ॥ १५ ॥ तदसिद्धौ च नैव स्यात् प्रवृत्तिर्धीमतामियं । भेदस्य विषयत्वे तु न वेदान्तनिबन्धता ॥ १६ ॥
मैवं बन्धो भिदा चापि न सत्यः कल्पितत्वतः । ततो विषयसिद्धिः स्यात् फलसिद्धिश्च संभवेत् ॥ १७ ॥