________________
( 707 ) Beginning :
[ श्रीगणेशाय नमः ॥ श्रीनृसिंहब्रह्मणे नमः ॥ ॐ॥ पञ्चाध्याये तापनीये पूर्वस्मिन् सम् + रित (?) ।
सगुणोपासनात् सामराजस्य विशदाशयान् ॥ १॥ ज्ञात्वाधिकारिणो देवानुपसन्नान् प्रजापतिः । नवखण्डे तापनीये ह्युत्तरस्मिन्नबुबुधत् ॥२॥ प्रणवं मन्त्रराजश्च समष्टिव्यष्टिभावतः।। महावाक्यार्थमालोच्य प्रादाग़ौक्यसिद्धये ॥३॥ संगृह्योपासनायोग्यां स लोकानुजिघृक्षया । पद्धति मन्त्रराजस्य वैरिचाख्यां व्यधात् स्वयम् ॥ ४ ॥ अथानुष्ठानक्रमन्यासानुनादिसहितमुपासनमभिधीयते30 नित्यप्रबुद्धाय परमात्मने नम इति प्रबोधमन्त्रेण निद्रासाक्षित्वेन अनिद्रे चिद्रूपे स्वात्मन्यवस्थाय ततः प्रणवरूपेणामृतमन्त्रेण विद्यामयीं परमात्मनो मूर्तिमनुसन्धाय ७० विद्यादेहाय परमात्मने नम इति सप्रणवेन संविन्मन्त्रेण संचिद्रूपतामनुचिन्त्य पुनर्गतदिवसकृतमेतद्दिवसे च करिष्यमाणं ज्ञानक्रियात्मकं सर्वमपि व्यवहारजातं व्यवहारकाल एव संविन्मात्रत्वेनालोचितं परिपूर्णसच्चिदानन्दस्वरूपे परमेश्वरे तत्पूजाजपहोमतर्पणध्यानादि प्रणवेन समर्प्य तुरीयप्रणवेन संचिदेकरसतामनुसन्ध्यात् । अथोत्थाय आवश्यकशौचाचमनदन्तधावनमन्त्रस्नानविधिस्नानादिभिः शुद्धो भूत्वा कृतसन्ध्योपासनादिकः .......................... सर्वात्मकेन प्रणवेन सर्वात्मतामनुसन्धाय हंसः सोऽहमिति व्यतिहारेणैक्यं भावयित्वा रेचकपूरकाभ्यां संहृतसकलप्रपञ्चः कुम्भकेन तुरीयमात्मानमनुसन्दध्यात् ॥
It ends: [संगृह्य पङ्कजभुवोत्तरतापनीयं
वैरिञ्चकल्प इति देवहिताय चक्रे । उद्धृत्य तस्य विमलैरथ मन्त्ररत्न
र्भाष्यं प्र[अ ?]भाष्यत निजं गुरुगौड़पादैः ॥