________________
( 329 )
Beginning :
दुर्निवारमनस्तापनिवारणपटीयसौम् । । जगदानन्दसन्दोहजननीम हमाश्रये ॥१॥ भट्टकेशवसम्मतसदानन्दात्मजः सुधीः । यजुर्वित् केशवः प्राह किञ्चित्सांख्ये यथामति ॥ २॥ इह विविधं तत्त्वं प्रकृतिः पुरुषश्चेति। प्रकृतिरेव प्रधानमित्यभिधौयते, सत्त्वादित्रिगुणा नित्येति प्रकृतिखरूपलक्षणं, विकाररहितत्वाच्चेति नित्यैवेयं, पुरषेऽतिव्याप्तिवारणाय सत्त्वादित्रिगणे त्युक्तम् । यद्यपि सत्त्वादयस्त्रयो गुणा यस्या इति विग्रहः, महदादितत्त्वानामपि त्रिगुणात्मकत्वात् तत्रातिप्रसङ्गवारणाय नित्येति । तटस्थलक्षणन्तु जगदुपादानकारणं प्रकृतिरिति । तथा हि विभुत्वं सुखदुःखमोहसामान्योपादानकं नियमेन तदन्वितखभावत्वात् । यनियमेन
यदन्वितखभावं तत्तत्मामान्योपादानकम् । End :
धर्मेण गमनमूचं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ इति । शिएं सकलमकलकं चाभ्युदय[पगम ?]सिद्धान्तसिद्धमित्युपेक्षितमिति ।
दलितानर्थमूलाय सर्वतत्त्वार्थदर्शिने।।
करणापूर्णचित्ताय कपिलाय नमो नमः॥ Colophon :
इति सांख्यार्थतत्त्वप्रदीपिका समाप्ता । Post-colophon statement : शुभमस्तु । श्रीसंवत् १८१५ ।
7988. 324. Atentateucifacht Sāmkhyatattvārthapradīpikā.
Substance, country-made paper. 91x5 inches. Folia, 5. Lines, 11 on a page. Extent in slokas, 110. Character, Nagara. Appearance, tolerable. Incomplete.
A second copy under a slightly different title.