________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 488 )
ब्राह्मं सूर्यसमुद्भवं शिवशिवासंवादजं हौरिकं श्रीमद्गर्गवशिष्ठशौनक शुकव्यासादिभिः कौर्त्तितम् ।
शास्त्रं सत्यवराहरेणुकमणित्याद्यैश्च यद्विस्तुतं
9
तत्सारं परिगृह्य कोमलपदैः श्रीमच्छिवानुज्ञया ॥
शिवमुखैर्गदितञ्च निजागमे
भगणजं गगनेचरजं फलम् ।
ललितनिर्मल कोमल सत्यदैः
सुमतिना कृतिना हि विरच्यते ॥
( विगi 5722 ) खेटलीलावितासं होराचार्यः मुञ्जराजः करोति ।
होरासारं शम्भुहोराप्रका रम्यैर्वृत्तैः शम्भुभुषालतुच्यै ॥
or ज्योतिःशास्त्रप्रशंसा ।
चतुर्भूतमिदं श्रुतेश्च विधिना ज्ञातुं प्रवृत्तं रवेः
होराख्यव्यवहारकच्च गणितं स्वन्धत्रयं ज्योतिषम् ।
तत्सूर्येण मया सुराय कथितं प्रत्यक्पुरे रोमकेऽप्यध्येतव्यमिलामरैश्च परमं पुण्यं रहस्यं यतः ॥
व्याद्यः सिद्धान्तः स्मृतः सोमसंजो
यो वै दुर्गाशम्भुना सम्यगुक्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
बन्यो धात्रा निर्मितो ब्रह्मसंज्ञः
सूर्येणोक्तः सौरसंज्ञस्तृतौयः ॥
वासिष्ठाख्यः पौलिशो लोमशश्च
पाराशर्यः सांप्रताचार्यसंज्ञः ।
प्रोक्ताः सिद्धान्तास्त्वमौ सप्तसंख्याः व्यक्ताव्यक्तैर्भूरिभेदैः समेताः ॥
For Private and Personal Use Only