________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11997 THE SANSKRIT MANUSCRIPTS येनाद्वैतमतादिदावदहनो विश्वक्षयायोयतो ध्वस्तो व्याससुधासमुद्रविलसज्ज्ञानामृतं वर्षता / पूर्णः सत्सरसीगणोऽतिमहितः श्रीनीलकण्ठेन सः स्वानन्दं वितनोतु विष्णुपदगः स्वानन्दतीर्थाम्बुदः / / आनन्दतीर्थचरणं शरण चामि यद्दलात् / अद्वैतिरसनाच्छेदकतरी वाग्विजम्भते / / नन्वन्यऽपि वेदविरुद्धा भूयांसः समया. सन्ति / तत्किमित्यद्वैतमत एव प्रद्वेषविशेष इत्यत आह -- अन्येऽपि चार्वाकतथागतार्हतप्रभा. १.राक्षांघ्रीकणादकल्पिता कदागमाः सन्ति / तथापि नो तथा यथायथ. मद्वत . . . . / वपर सिद्धान्तसाधनबाधनसामर्थ्यविकलतयाप्यर्थवत्वेन सर्वदुरागमेष्वप्यत्यन्ताधमत्वादीदृशोऽन्यः कोऽप्यधमो नास्तीत्यतस्तस्यै. गत्यन्तहेयत्वादुक्तमुपपन्नमिति भावः / श्रीनारायणपण्डितार्यकृतिना सन्दीपिते सर्वतः प्रोदश्चन्मरुद्ग्रहागममहानुग्राहलब्धौजसा / मायात्रादिमहाठवीप्रलयकृत्यद्वैतकालानले .. प्रादुभीवमगात्समुज्वलतरः प्रज्वाल इत्यादिमः / / सर्वतः सर्वदेशेषु कालेप वा सर्वेभ्योऽपि शास्त्रेभ्यो वा प्रकर्षण प्रवर्तते यो मरुदुद्ग्राहागमो मरुना प्राणरूपानन्दतीर्थविरचितं शास्त्रं सर्वदेवेभ्य. शेषरुद्रगरुडादिभ्यः प्रकर्षण काशमानो यो मरुदवहो मरुत्सु सर्वप्राणेषग्रहः . . . . अस्य प्राणस्तस्यागमः शास्त्रमिति वा योज्यम् / तस्यागमस्य योऽयं परमानुग्रहस्तेन लब्धं प्राप्तमोजो येनेति प्रसिद्वानन्दसन्दीपनेऽपि महामारुतागमस्य सा()विद्यमिति मात्र / Colophon : इत्यद्वैतकालानले प्रथमः प्रज्वालः / अथापेयदीक्षितोत्प्रेक्षितं माध्वाभिमतपञ्चाधिकरण्यां दूषणाभासजाल मनूद्य निराचिकीर्षुर्गुरुप्रणामाचरणपूर्वकं चिकीर्षितं प्रतिजानीते For Private and Personal Use Only