________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः॥
॥ आवेदनम् ॥
अत्र हि श्रीमद्भारतदेशललामभूते श्रीमत्तञ्जपुरीविराजमानेऽस्मिन् महति श्रीसरखतीमहालये विद्यमानानां चोळाधीश्वरैस्सम्पाद्य संरक्षिसानां सर्वेषामपि ग्रन्थानां, डाक्टेर श्रीबरनेल महाशयैस्सम्पाद्य मुद्रिता सूचिकैव प्रमाणं भवति । अतस्ते ग्रन्थाः B. No. इति कृतसाङ्केतिकसंज्ञाः प्रकाशन्ते । ततोर्वाचीनेषु कालेषु अस्य श्रीसरस्वतीमहालयस्यार्थे बहुभिर्महाशयैस्सामोदं समर्पिता ग्रन्थाः परश्शतं भवन्ति । अतस्तेषां ग्रन्थानामपि दातनामानुरोधेन सूचिकासु संज्ञाश्च दत्ता भवन्ति । ये चैताभ्यः सूचिकाभ्यः परिभ्रष्टा ग्रन्थाः तेषां सर्वेषामप्यविशेषेण श्री 0. S. रामखामिशास्त्रिभिर्महाशयैः (Ex-Lilrarian) सूचिका संपादिता। अतस्ते ग्रन्थाः 0. S. R. No. . इति संज्ञया व्यवहियन्ते । सर्वाभ्योऽपि सूचिकाभ्यो ये परिभ्रष्टा ग्रन्थास्तेषां No. less. इति, संख्याविहीनानां ग्रन्थानां no Nil इति च संज्ञा दत्तेत्यवधेयम् । ताश्च संज्ञा यथाक्रममत्रोपपायन्ते ॥ यथा(1) श्रीडाक्टेर बर्नेल्महाशयानां B. No. (2) श्रीजम्बुनाथभट्लाण्डगे महाशयानां J. L. No.
श्रीत्यागराजस्वामिमहाशयानां I. S. No.
For Private and Personal Use Only