________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतस्तच्छीलास्तान्त्रिका वामाः पाषण्डाश्चेत्यभिधीयन्ते । श्रुत्यादिविहितकर्मानुष्ठान सदाचारविहीनाः देवतास्वरूपतच्चज्ञानविहीनाः अतिनश्वरफलमात्र कामनया मन्त्रजपादिक्रियामात्रपराः तान्त्रिकाः, श्रुत्यादिनिषिद्धेदोषापाद कैर्मधुमांसादिभिः देवता तोषणपरा वामाः स्वशरीरोत्कर्तनाद्यैरुपलब्धरक्तमांसादिभिः हिंसात्मकातिनिन्दितजीवबलिदानादिभिश्व देवतातर्पणशीलाः पाषण्डा इत्युच्यन्ते । एतानवैदिकान् नियमयितुमेव तन्त्रशास्त्रं प्रवर्तितमिति महद्भिर्बहुवा समुपन्यस्तम् । अथापि केवलतान्त्रिको मार्गः अवैदिकोऽपि निःश्रेयससाधनतयाऽनङ्गीकृतोऽपि देवताप्रसादजनकत्वाद नातितरां निन्द्यः । अपरौ वामपाषण्डौ तु निन्द्यौ निरयदी चेति निषिद्धौ ॥
अतो वैदिकमार्गेपासना साघनीभूतास्सर्वेऽपि मन्त्रा आत्मज्ञानसाधनीभूता एवेति अनवद्योऽयमाशयो बहूनां महतां मान्यानामाचार्याणामिति शिवम् ॥ इत्थं
क्षे. शं. सुब्रह्मण्यशास्त्री, गणेशाद्वैती 1
For Private and Personal Use Only