________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6022
A DEBORIPTIVE OATALOGUE OF
Beginning :
श्री वेदव्यासाय नमः ॥ ॐ ॥ सच्चिदानन्ददेहाय नमः शेषाङ्गशायिने । आत्मने वेदवेद्याय मुक्तगम्याय विष्णवे ॥ १ ॥ भवाब्धिर्जानुदघ्नः स्यादानन्दः कण्ठसंमितः । मदुपास्त्येति हस्ताभ्यां रामो रक्षतु सूचयन् ।। २ ।। विभज्य वेदं यः सूत्रं चक्रे वेदार्थवित्तये । प्रार्थितो ब्रह्मरुद्राथै नमो न्यासाय विष्णवे ॥ ३ ॥ असाधूनां निबन्धेन कुण्ठितं सूत्रमञ्जसा । व्याख्यातं येन सर्वज्ञं वन्दे भाष्यकृतं मुनिम् ।। ४ ।। भाष्यबोधाय सतर्कदीपावलिमचीक्लपत् । स पद्भनाभतीर्थायों दद्याद्विधा सतां गुरुः ॥ ५॥ श्रीमद्भाष्यं यथाचार्यभावं यः सुप्रकाशितम् । वन्दे तान् जयतीर्थार्यान् यः सुधा निर्मिता मृदा ॥६॥ व्यासराजेन्दुमाशासे चन्द्रिका यस्य संमना । दुर्वादिचोरान विद्राव्य रक्षितं भुवनत्रयम् ॥ ७ ॥ अनधीत्य महाभाष्यं व्याख्यातं यदनुग्रहात् । वन्दे तं विधिना सत्यनिधि विज्ञानसिद्धये ॥ ८ ॥ ज्ञानभक्त्याशुपेतानामाचार्याणामनुस्मृतेः । अज्ञस्तरामि दुर्गाणि येभ्योऽलब्धा मया सुधा ॥ ९ ।
For Private and Personal Use Only