________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSERIT MANUBOLINTI
6247
गीताभाष्यं चाकारासौ प्रथमं तुष्टिदं हरेः । भाष्यानुभाष चक्रेऽथ अनुव्याख्यानमव्ययम् ।। प्रमाणलक्षणं नाम कथालक्षणसंज्ञकम् । उपाधिखण्डनं चक्रे मायावादस्य खण्डनम् ॥ ३ ॥ चके प्रपञ्चमिथ्यात्वमानखण्डनमप्यथ । चकार तत्वसंख्यानं साधनं विष्णुदर्शनम् ॥ ४ ॥ अन्य तत्वविवेकाल्यं तस्वोद्योतं हरेः प्रियम् । कर्मनिर्णयनामानं ग्रन्थं न्यायार्थबंहितम् ॥ ५॥ सुखतीर्थयतिञ्चक्रे विष्णुतीर्थविनिर्णयम् । ऋग्भाष्यञ्च चकारासौ सर्ववेदार्थनिर्णयम् ॥ ६ ॥ ऐतरेयं तैत्तिरीयं बृहदारण्यमेव च । ईशावास्य काठकञ्च छान्दोग्याथर्वणं तथा ॥ ७॥
मण्डूकनाम षप्रश्न तथा तलवकारकम् । चक्रे भाष्याणि दिव्यानि दशोपनिषदां गुरुः ॥८॥ निर्णय सर्वशास्त्राणां गीतातात्पर्यसंज्ञिकम् । । संन्यायविवृतिं चक्रे न्यायशास्त्रनिकुन्तनम् ॥९॥ मरसिंहनखस्तोत्रं चके यमकभारतम् । द्वादशस्तोत्रमकरोत्कृष्णामृतमहार्णवम् ॥ १० ॥ तन्त्र सारं चकारासौ सदाचारस्मृति सुधीः । श्रीमद्भागवतस्यापि तात्पर्य ज्ञानसाधनम् ॥ ११ ॥
For Private and Personal Use Only