________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6162
A DESOBIPTIVE CATALOGUE OF
खापं प्रापयति श्रमापहतये कल्पावसाने च य
स्तं देवं पितरं पतिं गुरुतमं वन्दे रमावल्लभम् ॥१॥ लसतु श्रीमदानन्दतीर्थेन्दु! हृदन्तरे। यद्वचश्चन्द्रिकाखान्तसन्तापं विनिकन्तति ॥ २ ॥ पदवाक्यप्रमाणज्ञान् प्रणम्य शिरसा गुरुन् । व्याकरिष्ये यथाबोधं विष्णुतत्त्वविनिर्णयम् ॥ ३ ॥ विघ्नविघातादिसाधनतया अविगीतशिष्टाचारपरंपरागवगतं नारायणवन्दनं स्वयमन्तरायविधुरोऽपि भगवानानन्दती. र्थमुनिः शिष्यान् ग्राहयितुं प्रकरणादौ निबनाति ॥ सदा. गमैकमिति ॥ सदा वन्द इत्यनेन नमननारायणवन्दनं प्रत्यूहविरहादिप्रयोजनोद्देशेनेति सूचयति । End:
अमृतस्येति ॥ अमृतस्य मुक्तामुक्तसमुदायस्यैष परमात्मा सेतुराश्रयः । परस्परमपि मुक्तानां साम्यं नास्ति किमुत परमात्मनेति । भावेन तत्र पुराणवाक्यं पठति । नपाचा इति । इति हि श्रुतिरिति पुराणकृत्स्वोक्तार्थे 'युवा स्यात्स यो मनुष्याणां राद्ध' इत्यादि श्रुतिसंमतित्वेन दर्शयति । अथवा सजनसंविद इत्युक्तम् । तत्र कोऽसौ मोक्षः । कुतच तस्योपलक्षणा भगवत्संवित्साध्यत्वमिति शंकाविशेषणत्रयसाधनावसाने विष्णुं सर्वैर्गुणरित्यादिना परिहरतीति ॥ इदानी इतीयपरिच्छेदार्थमुपसंहर
For Private and Personal Use Only