________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ऊर्मिषम् ॥
7766. URMISA TKAM. ब्रामण्यं प्राप्य लोकेऽमित्र मूको बधिरो यदि । न च कामति संसारात्स खलु ब्रमहा भवेत् ॥१॥ अप्येतियोऽशनायादीनविचारेण निरूण्यते । क्षुधादिसाक्षी तस्यास्य ब्रह्मत्वं केन वार्यते ॥२॥ नन्वेक आत्मा मूढानां विदुषां चेति ते मतम् । उक्तोर्मिषट्के तत्तत्त्वं तत्पतं चान्यतत्कथम् (१) ॥ ३ ॥ अविचाराविचाराभ्यां यथा सर्पत्वरज्जुत्र । तथाचात्मन्यसंसारे भावाभावावितीर्यताम् ।। ४ ॥ क्षुत्पिपासे प्राणधर्मों शोकमोहौ तु मानसे । जरामृत्यू स्थूलदेह आत्मधर्मो न कश्चन ॥ ५ ॥ प्राणसंचारबाहुल्याद्गमनादिश्रमे सति । क्षुत्पिपासाअनिस्तेन प्राणधर्मत्वमेतयोः॥६॥ इष्टस्य वस्तुनोऽसिद्धौ चेतसो यानवस्थितिः । स शोको मनसो धर्मो मोहश्च विषयभ्रमः ॥७॥ जरा देहस्य शैथिल्यं मृत्युः प्राणवियुक्तता । ते सर्वे ह्यात्मनि भ्रान्त्या कल्पिता व्योमनैल्यवत् ॥ ८॥
For Private and Personal Use Only