________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। मनोलयप्रकरणम् ॥ 7763 & 64. MANOLAYAPRAKARANAM.
अन्तर्निष्ठो भवेद्योगी अन्तनिष्ठः सदा सुखी । अन्तनिष्ठस्तपोनिष्ठः अन्तर्भाव सदा कुरु ॥ मनोमूलं न जानाति मूर्यो भवति पण्डितः । मनोमूळ भवेदेयमेवं जानाति पण्डितः ॥ मनोमूलं भवेद्ब्रह्म ब्रह्ममूलमिदं जगत् । कथं ध्याता कथं ध्येयं ब्रह्मैवाहं न संशयः॥ देहमध्ये स्थितं ब्रह्म कथं मूढ न पश्यसि । मूढात्मा देहभावात्मा देहं सत्यं कथं भवेत् ।। जीवात्मा देहसंबद्धो देहातीतः परो मतः । सर्व खलु इदं ब्रह्म इति मे निश्चिता मतिः ।। देहमध्ये स्थितं ब्रह्म कथं भूढ न पश्यसि । वाचा जल्पो वृथाऽयं तु निःशन्दं ब्रह्म उच्यते ।। माया ब्रह्म कथं भिन्नं सूर्यरश्मी तथैव च । पुष्पगन्धं कथं भिवं जलतरंगं तथैव च ।। ब्रह्मरूपमिदं सर्व ब्रह्मैवाहं न संशयः । मनोलयं भवेद्ब्रह्म ब्रह्ममूलमिदं जगत् ।।
For Private and Personal Use Only