________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। भिक्ष्वष्टकम् ॥ 7761. BHIKSVASTAKAM.
गङ्गाप्रतीरं ध्रुवमाश्रयन्तः
सङ्गापनोदं परिशीलयन्तः । तुरंगशृङ्गान्समुपाश्रयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥
कामाघरातीन्परिभावयन्तो
मामादिभोगानपि दूरयन्तः । वामान्द्रुमूलान्समुपाश्रयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥२॥ ब्रह्मात्मभावैकसुधां पिबन्तो
माहेश्वरं श्रीमनुमामनन्तः । मायां महाजालमयीं त्यजन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥ तीर्थानि सर्वाणि च तीर्थयन्तो __ मुक्तिं परां केवलमर्थयन्तः । स्वीयानि नामानि यथार्थयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥
For Private and Personal Use Only