SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS च्यते । अपञ्चीकृतपञ्चमहाभूतानि तत्कार्य सप्तदशकं लिङ्गं हिरण्यगर्भः । तत्सूक्ष्मशरीरमात्मनः। श्रुतिसिद्धानि पन्चीकृतपञ्चमहाभूतानि । तेभ्य उत्पन्नमधिदैवं ब्रह्माण्डमध्यात्ममधिभूतं च करशिरश्चरणादिमल्लोकप्रसिद्धं स्थूलशरीरं जातम् । एतानि पञ्चीकृतपञ्चभूतानि । तत्कार्य ब्रह्माण्डम् । प्राणिनां स्थूलशरीरजातं सर्वं विराडुच्यते । तत्स्थूलशरीरमात्मनः । एकमेव स्थूलशरीरं विराडाख्यम् । एकमेव सूक्ष्मशरीरं हिरण्यगर्भाख्यम् । एवं शरीरद्वयाभिमानी जीवस्त्वंपदार्थः । सच्छन्दवाच्यं ब्रह्मैव । शरीरद्वय प्रविष्टं जलसूर्यवद्धटाकाशवच्च प्राणधारण क्रियायोगात् जीव इत्युच्यते । स च जीवो जाग्रत्स्वमसुषुप्तिव्यतिरिक्तो निर्गुणो निरवयवो निःसङ्गो नित्यः शुद्धः परमानन्दाद्वयश्च भावः परमात्मैव त्रिष्वपि कालेषु सन्नध्यन्तःकरणसंनिधानाज्जाग्रत्स्वप्रसुषुतीनि अन्तःकरण स्थानि क्रियाकारकफलानि चादिकृतः प श्यति । इन्द्रियैरर्थोपलब्धिर्जागरितं स्थूलकर्मनिमित्तं । करणेधूपसंहृतेषु जागरितसंस्कारजः क्षुद्रकर्मनिमित्तवासनारूपहस्त्यादिविषयः स्वनम् । स्थूलक्षुद्रकर्मद्वयोपरमे तस्कृतजागरितस्वमप्रत्ययद्वयोपरमाइटकणिकायामिव वटवृक्षावस्थानमन्तःकरणस्थ सच्छब्दवाच्ये ब्रह्मणि मायाविनि शबले कारणात्मनावस्थानं सुषुप्तिः । एवमेतानि जागरितस्वमसुषुप्तिस्थानानि । जीवः क्रमतोऽक्रमतश्चापश्यत्येवाधार्य पूर्व For Private and Personal Use Only - 5917
SR No.020238
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 13
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages500
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy