SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5851 AMIRRIT KANCSORIFTS नाधिकरण्यं लब्धम् । पदार्थद्वयैक्यं शिष्यं प्रत्याभ्यायत इत्याह । एकता ग्राह्यतेऽसीति । सिद्धमर्थमाह, तदैक्यमनुभूयतामिति । द्वयोस्तत्त्वंपदार्थयोः ऐक्यं प्रमाणसिबमेकत्वमनुभूयतां मुमुक्षुभिरित्यर्थः॥ क्रमप्राप्तस्याथर्वणवेदगतस्य "अयमात्मा ब्रह्म' इति वाक्यस्यार्थ व्याचिकीर्षुः आदावयमात्मेति पदद्वयन विवक्षितं अर्थ क्रमेण दर्शयति। खप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अयमित्युक्तितः अयमिति शब्देन कथनात् स्वप्रका. शापरोक्षत्वं स्वयंप्रकाशत्वेनापरोक्षवं मतममिमतम् । अ. दृष्टादिवमित्यपरोभत्वं घटपटादिवश्यत्वं च व्यावर्तयितुं विशेषणद्वयमिति बोद्धव्यम् । देहादियात्मवन्दप्रयो. गदर्षनादात्मशब्देन किं विवक्षितमित्याकांक्षायामाह--- अहंकारादिदेहान्तात्प्रत्यगात्मेति गीयते ॥ इति । अहार आदिर्यस्य अहंकारप्राणमनइन्द्रियदेहसंघातस्य सः अहंकारादिः तथा देहः अन्तः यस्योकस्य संघातस्य स देहान्तः अहंकारादिश्चासौ देहान्तश्चेति तथा तसात् । प्रत्यकप्रत्यगात्माधिष्ठानतया साधितया च आत्मा अन्तरात्मेति गीयते । अस्मिन् वाक्य इत्यर्थः । ब्राह्मणादिवपि ब्रह्मशब्दस्य प्रयोगदर्शनाद । For Private and Personal Use Only
SR No.020238
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 13
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages500
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy