________________
Shri Mahavir Jain Aradhana Kendra
5848
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESORIPTIVE CATALOGUE OF
येनेक्षते शृणोतदिं जिघति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदाहृतम् ॥ इति । येन चक्षुर्द्वारा निर्गतान्तःकरणवृत्युपहितचैतन्येन इदं दर्शनयोग्यं रूपादिकमीक्षते पश्यति पुरुषः । तथा श्रोत्रद्वारा निर्गतान्तः करणवृत्त्युपाधिकेन येन चैतन्येन शब्दजातं शृणोति । तथैव प्राणद्वारा निर्गतान्व:करणवृत्र्युपाधिकेन चैतन्येन गन्धजातं निघ्रति । वागिन्द्रियावच्छिनेन व्याकरोति शब्दजातं व्याहरति । येन च रसनेन्द्रियद्वारा निर्गतान्तःकरणवृत्युपहितेन स्वाद्वस्वादु विजानाति । अनुक्तसमुच्चयार्थः चशब्दः । तथा चोक्तानुक्तः सकलेन्द्रियैः अन्तःकरणवृत्तिभेदैश्व उपलक्षितं यच्चेतन्यमस्ति तदेवात्र प्रज्ञानमुच्यत इत्यर्थः । अनेन येन वा पश्यतीत्यादेः सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीत्यस्यावान्तरवाक्यार्थः संक्षिप्य दर्शितः । तत्त्वं प्रज्ञानशब्दार्थं अभिधाय ब्रह्मशब्दार्थमाह ।
चतुर्मुखेन्द्र देवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥
उत्तमेषु देवादिषु मध्यमेषु मनुष्येषु अधमेषु अश्वगवादिषु देहधारिषु आकाशादिभूतेषु च जगज्जन्मादिहेतुभूतं यश्चैतन्यमस्ति तद्ब्रह्मशब्देनेर्यते । अनेनैष ब्रह्मष इन्द्रः
For Private and Personal Use Only