________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6814
A DESORIPTIVE CATALOGUB Or मायूरमगमं स्नात्वा कावेया दिनपञ्चकम् । सायंप्रातर्नमस्कृत्य शंकरं लोकशङ्करम् ॥ पुत्रोत्पत्तिं समाशास्य महाराजस्य भूयसीम् । पुत्रलाभाय भवतां वैद्यनाथालयं गतः ॥ बालाम्बिकापरिवृढं प्रसाद्य बहुधा ततः । समागतोऽस्मि दीपाम्बापुरं तत्सर्वमानितम् ॥ मदाशिवब्रह्मरूपं ब्रह्माद्राक्षं चिरोप्सितम् । प्रणम्य प्रार्थितास्ते हि महाराजकृते मया ।। पुत्रोत्पत्तौ झटित्यत्र प्रसादः क्रियतामिति । संज्ञया सूचयन पुत्रो भविता ह्यचिरादिति ॥ आत्मविद्याविलासाख्यः स्वीयो ग्रन्थः प्रसादितः युष्माकं भूयसे भाविश्रेयसे कारिता मया ।। भिक्षास्तिनतत्प्रसादात्पुत्रसम्पत्तिरुत्तमा । जातेयमिति चाऔषं श्रीमतां भवतामिह ।। महत्प्रसादचिह्नानि श्रेयांसीति वदन्ति हि । भवत्प्रहितवैद्येन दत्तौषधिनिषेवणात् ।। आनुकूल्यं शरीरस्य सम्यगेव हि दृश्यते । इतःपरं तथा शक्तिनास्ति देशान्तराटने ॥ वार्धक्यादपि दौर्बल्यादलंबुध्या च साम्प्रतम । कावेरीतीर एवात्र वस्तव्यमिति निश्चयः ॥. भवत्क्लप्सामहारेषु तत्रापि स्वरसा रुचिः ।
For Private and Personal Use Only